पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीय वण्:) श्रीवैखानसगृह्यसूत्रम् सप्तव्याहृतिपूर्वाञ्चेदाद्यन्तप्रणवान्विताम् । मनसा वा जपेचैव दशकृत्वोऽवरः स्मृतः' ॥ विश्वामित्र ‘पट्कृत्वस्वभ्यसेद्यद्वा प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ महस्रकृत्वस्वभ्यायः बहिरेतत्किं द्विजः । महतोऽप्येनसो मासात्वचेवाहिर्विमुच्यते ॥ पितामहः - 'सहस्रकृत्वः सावित्रीं जपेदेकाग्रमानसः । शतकृत्वोऽपि वा सम्यक् प्राणायामपरो यदि । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम्' ।। ब्रह्मणोपासिता देवी विष्णुना शङ्करेण च । कस्तं नोपासयेते देवीं श्रेयस्कामो द्विजोत्तमः । । बोधायनः . * प्रणवो व्याहृतयस्सावित्री चेत्येते ब्रह्मयज्ञाः अहरहः ब्राक्षणं किल्बिषात्पापात्पाक्यन्ति; पूतः पञ्चभिः ब्रह्मयशैरिति । विष्णुधर्मोत्तरेः - 'जपेनैकेन गायत्र्या नाशयेदुपपातकम् । जन्मत्रयार्जितं पापं दहेद्वयजपेन सः ॥ सप्तजन्मार्जितं पापं हरते चाष्टभिर्जपैः । तथैव विंशतिजपाद्वायत्री सर्वपापहा । कुलं तारयते तस्य सप्त सप्त च सप्त च । जप्त्वा चाष्टशतं देवीं सर्वपापक्षयावहाम् ॥ जन्मलयार्जितं पापं निधूय दिवि मोदते । अष्टोत्तरसहलेण कुलसप्ततिसंयुतः ॥