पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मलोकं समासाद्य ब्रह्मवन्मोदते चिरम् । एवंप्रभावा सा देवी गायत्री ब्रह्मवर्धनी ।। जिह्वाग्रे वर्तते यस्य तस्मात्कः पुरुषोऽधिकः' । इति अत एवाष्टावगामित्युक्तम् । प्रथम प्र मध्याइ ‘आपः पुनन्त्वित्याचम्य तथा प्रेक्ष्य 'उद्वयमित्यादि भिस्तिष्ठन्नादित्यमुपस्थाय तथा करोनि । १० ।। मध्याहे विशेषः । आपः पुनन्वित्याचमनम् । ओपो हिष्ठति प्रोक्षणम् । पितामहः - * आपः पुनन्त्वित्येतस्य आप एव भवेदृषिः । ब्रह्मणस्पतिरित्येषा देवतेति च कीर्यते ॥ अनुष्टुबिति छन्दः स्यात् पानेऽपां विनियुज्यते' । इति तथाप्रोक्ष्येत्युक्तत्वात् प्रातस्सन्ध्यावन्मार्जनादिकम् । अध्यमेकं प्रदातव्यं मध्याहे भास्करं प्रति ।। इति उपसंहारः पूर्ववत् । उपस्थानं तु पितामहः- 'आसत्यादृक्षु पूर्वे द्वे त्रिष्टुभौ कवयो विदुः । गायत्री तु तृतीया स्यात् चतुर्थी जगती मता ॥ उष्णिक् तचक्षुराद्यस्य मन्त्रस्य छन्द उच्यते । हिरण्यस्तूब इत्येव ऋषिर्देवोऽस भास्करः । । सायं 'अग्श्वेि ? त्यादिनाऽऽचम्य तथा प्रोक्ष्य 'यच्चिद्धी - त्यादिभिः मामभिरुपास्यासीनस्तथा करोति ।। ११ ।। सायं आग्रश्रेत्यादिना आचम्येति । 'अश्वेित्यनुवाकस्य छन्दो गायत्रमुच्यते । ऋस्सूिर्य इति ज्ञेयो देवता च हुताशनः ? ॥