पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमतिकृत-तात्पर्यचिन्तामनिसहितम् इत्येतद्भाषणं यत्तन्मन्स्रस्यादभिवादने । प्रदक्षिणेऽभिवादे च आत्मानञ्चाभिवादयेत् ।। आत्मपादौ तथा भूमेिं सन्ध्याकालेऽभिवादयेत् । आयुर्वेद्यां धनारोग्ये प्रामोनि पुरुषस्सदा ' ॥ इति सन्ध्यालयन्तु कर्तव्यं द्विजेनात्मविदा सदा । उभे सन्ध्ये तु कर्तव्ये ब्राह्मणैश्च गृहेष्वपि '(१) ॥ इति एवं सन्ध्योपासनविधिरुक्तः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयखण्डार्थविवरणं समाप्तम् । प्रथम-प्रश्णे