पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः खण्डः अथाऽऽचम्य 'कौरुक्षेत्र' मिति जलं नमस्कृत्य महाव्याहृत्या जलमभिमन्त्र्य इस्तेन तलतीर्थक्रमेण 'कूप्याभ्यः स्वाहा' इत्यादि भिस्तपयति ।। १ ।। अथ सन्ध्योपासनानन्तरं आचम्य कौरुक्षेत्रमिति जलं नमस्कृत्य। देवनिर्मितदेशत्वात् कुरुक्षेत्रादिस्मरणम्। सरस्वतीदृषद्वयोर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते । कुरुक्षेत्र शूरसेनं मात्स्य पाञ्चालिका अपि । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम्' । इति जलमित्यनेन द्रव्यान्तरनिवृत्तिः । प्रतिदिन द्रव्यान्तरेण कर्तुमशक्य त्वात् । किञ्च 'अभांसि जुहोति' इत्यारभ्य 'यदम्भांसि जुहोति । वसूनां सायुज्यं गच्छति' इति मधुविद्याफलप्राप्तिः श्रूयते' इति जलमित्युक्तम् । व्यासः- 'अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु। देवर्षीस्तर्पयेद्देवानुदकाञ्जलिभिः िपतृन्' । इति। आश्वमेधिके - 'अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । निवीी तर्पयेत्पश्चात् ऋषीन्मन्त्रकृतस्तथा ॥ इति । हस्तेन तलतीर्थक्रमेणाल्पमपि कृतमनेकफलप्रदमित्यभिप्रायेण तलतीर्थक्रमेणेत्युक्तम् आनुशासनिके 'कानि तीर्थानि भगवन् नृणां देहाश्रितानि वै । हस्तेन