पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न मरीचिः- 'दक्षिणपदमूर्ध वामपादमधः कृत्वा जान्वन्तरेऽङ्गुष्ठौ नि अध्याऽ पनि सन्यस्य तदुर्घ दक्षिणं पाणिमुत्तानं न्यस्य भूमध्येक्षण आसीत तद्त्रक्षासन / मिति । चमिकायान् :- 'यज्ञोपवीते मौञ्ज्याञ्च तथा कुशपविस्रके । ब्रझग्रन्थि विजानीयात् अन्यत्र तु यथारुचि ।। गवां वालपवित्रस्य सौवर्णस्य तथैव च । न ब्रह्मग्रन्थिनियमो धारयेतु यथातथम् । जफ्कर्महरा देते असुर व्यक्तरूपिणः । पवित्रकृतहस्तस्य विद्रवन्ति दिशो दश । आचम्घ- ब्रह्माञ्जलिं कृन्वा । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । स्मृतिरत्नावल्थान्-' सव्यस्य तु मध्यतः । दक्षिणस्याहुलीन्यस्य चतस्रोऽङ्गुष्ठवर्जिताः ।। तथा सव्यकराङ्गुठं दक्षिणाङ्गुष्ठवेष्टितम् । सदर्भहस्तो जानूवै दक्षिणे दक्षिणोत्तरम् । कृत्वा जानुनि कर्तव्यमेतत्कर्म करोमि यत् । तिथिवारादिकं स्मृत्वा सुसङ्कल्प्य यथाविधि । स्वमानसेन वाचा वा स तु सङ्कल्प उच्यते । प्रणवं व्याहृतीचैव गायत्रीश्च जपेत् क्रमात् । फ्च्छोऽर्धर्चस उच्छासात् वेदादींश्चतुरो जपेत् हरिरोमिति निर्दिश्य यत्कर्म क्रियते बुधैः ।। अधीयते वा राजवै तद्धि वीर्योत्तरं भवेदिति ।