पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः] ध्यापेत्पुरुसूतेन प्रतिपाद्य जनार्दनम् वशे भवति तस्यापि जगत्सर्वं मुनेरपि ? ॥ इति अभ्युपस्थाने हुत्वऽमेिं विधिवद्भक्तया ऋग्भिष्योडशबुिधः । कृताञ्जलिपुटो भूत्वा स्तुवन्नाशीः प्रयोजये 'दिति ॥ आयुष्मत्पुत्रप्राप्तौ-ऋविधाने पुत्रीयन् ब्राहणश्शुद्धः सुप्रसन्नमना भवेत् । पैरुषेणैव सूक्तन जुहुयादाज्यमन्वहम् । पयसाऽपि चरुं हुत्वा तेनापि जुहुयाच्छुचः । हुतशिष्ट चरुं शुद्धमश्नीयाताञ्च दम्पती ॥ एवं त्रिंशद्दिनादृध्र्व गर्भों भवति सुस्थितः । सर्वलक्षणसम्पन्नः पुत्रो भवति पावनः' । इति अग्यत्र : * शुक्रुपक्षे शुमे बारे पुंनक्षत्रे सुगोचरे । द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् ॥ दम्यत्योरुपवासस्यादेकादश्यां सुरालये ऋभिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् ॥ चरुं पुरुषसूक्तन प्राशयेत्पुत्रकाम्यया । प्राप्नुयद्वैष्णवं पुत्रमचिरात्सन्ततिक्षम 'मिति । तथाऽन्यत्र :- 'द्वादश्यान्तु चरुं सम्यक् पयसा निर्वपेद्विजः । यः करोति सहस्र स याति विष्णोः परं पदम् ' । इति । एकाक्षरमान्वाहार्षमिति । फलं तत्रैवोक्तम् () ‘त्यमग्ने रुद्र इति । पूर्वमेवोक्तम् । पवस्वादीनिति - 'पवस्व शतं वैखानसाः इति। आर्षेय ब्राह्मणे-'अथ खल्वयमार्ष उपदेशो भवति ऋषीणां नामधेयगोस्रोपधारणं स्वर्य यशस्यं धन्यं पुण्यं पुज्यं पशव्यं ब्रह्मवर्चस्यं प्राक् प्रातराशकमित्याचक्षते शौनकवाक्योपात्तेषु, सर्वकामाबाप्ति-आरोग्य-मृत्युनाशनां प्रमाणनवाक्यानि नोपलभ्यन्ते ।