पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः खण्डः अशक्तो नित्यं पादौ प्रक्षाल्य चम्य 'अतो देवादि । वैष्णवं जप्त्वा दिव्यं वायव्यमाग्नेयं मान् वा स्रानं कृत्वा पूर्ववदाचमनादीनि अस्रात्वा नाचरेत्कर्म जपहोमादि किञ्चन । स्रात्वाऽधिकारी भवति दैवे पित्र्ये च कर्मणि । । इति स्मृते वारुणस्रानेऽशक्तस्य प्रकारान्तरेण खानविधिभेदान् कुमुपक्रमते अशक्त इत्यादिना । अशक्तः-आतुरः । यद्वा राजतस्करादिभयाविष्टः । नित्यं प्रतिदिनम् । यद्वा नित्यकर्म । पादौ प्रक्षाल्याचम्य 'अतो देवादि वैष्णवं जप्त्वा । वैष्णवमिति जात्येकवचनम् । पुराणे:- 'यां शुद्धिं वैष्णवैर्मन्त्रैः आधत्ते वैष्णवो गुरुः । सर्ववेदधरोऽप्यन्यो नान्यैः कुर्वीत तादृशम्' । इति दिवश्च्युतैः गाङ्गेवैगधावैः सात पैव आसेचनं दिव्यम् ॥ २॥ वारुणव्यतिरिक्तान् रुानमेदानुदाहरति दिव्यमित्यादिना। दिव्यं वायव्यं अमेयं मांत्रं वा खानं कृत्वा पूर्ववदाचमनादि सन्ध्योपासनादीनि कुर्यात् । दिव्यखानलक्षणमाह दिवश्च्युतैरिति। दिवश्च्युतै अनभ्रगः गाङ्गेयैः-आका शगङ्गाजलैः। साततैः आतपसहितैः। आधावैः जलैः । 'एतद्वा अपं नामधेयं गुड यदाधावा 'इति श्रुतेः। आसेचनं दिव्यम् । अनभ्रगतेः सातपैर्वेऽसेचनं दिव्यम् । औषि पुराणे- ' आकाशगङ्गासलिलं तदादाय गभस्तिमान् । अनभ्रगतभेदोव्य सद्यः क्षिपति रश्मिभिः । तस्य स्पर्शननिधूतपापो द्विजोत्तमः । न याति नरकं मत्यों दिव्यखानं हि तत् स्मृतम् ॥