पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तान्पर्यचिन्तामणिसहितम् दृष्टसूर्य हि यद्वारि पतत्यप्रैर्विना दिवः । आकाशगङ्गासलेिलं यद्रोनिः क्षिप्यते रवेः । कृतिकादिषु ऋक्षेषु विषमेप्वम्बु यद्दिवः । दृष्टा [प्रथम प्रक्ने युग्मक्षषु च यत्ताय पतत्यकोऽङ्गितं दिवः । तत्सूर्यरश्मिभिस्सद्यः समादाय निरस्यते । उभयं पुण्यमत्यर्थ नृणां पापहरं द्विज । आकाशगङ्गासलिल दिव्यमानं महामुने ? ॥ इति ग्रन्थान्तरेः - 'उत्तरायणमध्ये तु यदा वर्षति वासवः । आतपेन सह रुानं दिव्यस्रानं तदुच्यते ? ॥ इति गवां पादोद्वनैः वायुनीनैः पांसुभिः स्पनं वायव्यम् ॥ ३ ॥ स्मृत्यन्तरेः- 'गोधुच्छन्तु समागम्य गोसावित्रीं जपेद्बुधः । गायत्रीमथ वा तच ज्ञानं वायव्यमुच्यते । इति ॥ बृहस्पतिः- 'वायत्र्यं गोरजः प्रोक्तमर गच्छति गोपौ । द्वित्सरस्वतीप्राप्त स्रानं सारस्वतं स्मृतम् ।। प्राप्य सारस्वतं तीर्थं भवेन्मुदितमानसः । सर्वतीर्थाभिवेकातु पवित्रं विदुपां हि वाक्' । इति भस्मना शुद्धेन सर्वाङ्गमालेपनमाग्नेयम् ॥ ४ ॥

  • भस्म स्यादमिहोत्रादेरावसथ्यादथापि वा ।

अभावे चानयोर्विप्र लैौकिकाग्रथाऽहरेत् । भस्मानं जलस्रानादसंख्येयगुणाधिकम् । तस्माद्वारुणमुत्सृज्य स्रानमाम्नेयमाचरेत् ।।' इति आपो हिgाम ' इति मन्त्रेण आग्नेयेन तीर्थेन अभ्युक्षणं