पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! पादादौ प्रणवं कुर्यादवैर्चादौ यथाक्रमम् । ऋगादौ प्रणवं कुर्यान्मन्त्रस्रानविधौ नरः ॥ भुवि मूझिं तथाऽऽकाशे मूध्याकाशे तथा भुवि । आकाशे भुवि मूर्श्वि स्यान्मन्त्रशानं विधीयते । ॥ इति बाशवस्वयः- 'शन्न आफ्स्तु द्वपदाऽऽप्यापो हिष्ठाऽघमर्षणः । एतैस्तु पञ्चभिर्मन्त्रैः मन्त्रानं तदुच्यते' । इति आग्नेयेन तीर्थेनाभ्युक्षणम् । प्रचेताः - 'वैश्वानरेण यत्किञ्चित् कुरुते प्रेक्षणं द्विजः । गङ्गातोयसमं सर्वे वदन्ति ब्रह्मवादिनः' । इति (अशक्त इत्यादि सूत्रे) वा शब्देन खानान्तराणि संगृह्यन्ते । मान् भौमं तथाऽऽग्नेयं वायव्यं दिव्यमेव च । वारुणं मानसशेति सप्तानान्यनुक्रमात् ।

  • आो हि ष्ठा 'दिभिर्मान्त्रं मृदालेफ्स्तु पार्थिवम् ।

आग्नेयं भस्मना स्रानं वायव्यं गोरजः स्मृतम् । यतु सातपवर्षेण खानं तद्दिव्यमुच्यते । अवगाह्य वारुणं स्यान्मानसं विष्णुचिन्तनम् । चतुर्भुजं महादेवं शंखचक्रगदाधरम् । मनसा ध्यायते विष्णु स्रानं मानसमुच्यते ।।' इति हारीतः-- ‘प्रातस्स्रातुमशक्तश्चेत्कापिलं स्रानमाचरेत् । नाभेरधः प्रविश्याप्यु कटिं प्रक्षाल्य मृज्जलैः । आद्रेन कर्पटेनाङ्गमार्जन कापिलं स्मृतम्' । इति स्त्वन्तरेः – * गायत्र्या जलमादाय दशकृत्वोऽभिमन्ञ्य च । शिरस्मङ्गेषु सर्वेषु प्रोक्षयेतेन वारिणा । स्नानं गायत्रिकं नाम सर्वपापप्रणाशनम्' । इति ।