पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौ श्रीनिवासमखित-तात्पर्वचिन्तामणिसहितम् [प्रथन प्रश्ने भिन्नुः– ‘यूचाऽभिमन्त्रितं तोयं प्रोक्षत्रेन्मूप्ति सर्वत । अनुकल्पमिदं स्रानं सर्वपापहरं नृणाम् । अज्ञानाद्यदि वा मोहात् रात्रौ दुश्चरितं कृतम् । प्रातस्लानेन तत्सर्वं शोधयन्ति द्वजातयः' । इति याज्ञवल्क्यः – ' अगम्यागमनात् स्तेयात् पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात्पापात् मुच्यते खानमाचरन् ' । इति असामथ्र्याच्छरीरस्य वैषम्याद्देशकालयोः । रुानान्येतानि तुल्यानि मानसं श्रेष्ठमुच्यते ? ॥ इति दक्षिणपाणेर्मध्यतलमाग्नेयं तीर्थम् ॥ ६ ॥ दक्षिणपाणेर्मध्यमित्यादिना देवर्षिपितृब्राह्मतीर्थानां लक्षणान्याह कनिष्ठांगुलिमूलं दैवम् ॥ ७ ॥ अझुष्ठव्यतििरक्तानामित्यर्थः । । 'अगुष्ठस्य मूल ब्राझ 'मित्युक्तत्वात् प्रदेशिन्यंगुष्ठयोर्मध्यं पैतृकम् ॥ ९ ॥ अंगुष्ठस्य मूलं ब्राह्मम् ॥ १० ॥ दैवेन नीथेन (उपवीती) दैविकं कार्यम् ॥ ११ ॥ आर्षेणार्षम् ॥ १२ ॥ पैतृकेण पिऽयं सर्वम् ॥ १३ ॥ ब्राहक्षेण ब्रह्मतर्पणमाचमनम् ।। १४ ।। आग्नेयेन तीर्थेनाभ्युक्ष्मणं करोति ।। १५ ।। दक्षिणहस्तमुद्धृत्योपवीतं धारयेदुपवीती ॥ १६ ॥