पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः] कण्ठसत्तं निवीनी भवति ॥ १८ ॥ उपवीतादिलक्षणमाह दक्षिणट्टस्तमित्यादिना । श्रुनिरपि । ‘दक्षिणं बाहुमुद्धरतेऽवधते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीत संवीतं मानुष'मिति रुन्नात्वा पुण्येऽहनि संस्कारहीमं जुहुयादिित विज्ञायते ॥ १९ ॥ रुलात्वेत्यनेन समावर्तनम् पुण्येऽहनीयनेन विवाहयोग्यतिथिवार नक्षत्रादीनि - संस्काग्होमिति पाणिग्रहणसंस्कारश्चोच्यते । पाणिग्रहणे पुण्य क्षदिप्रतिपादनाभावात् इतरसंस्कारेषु प्रतिपादनाच ब्राह्मादिविवाहानामपि पुण्येऽहनि कर्तव्यताज्ञापनार्थं रुन्नात्वा पुण्येऽहनीत्युक्तम् । यद्वा स्रान नैमितिकं ज्ञेयं रात्रावपि तदिप्यते । । इत्युद्वाहोक्तस्य मङ्गलस्नानस्य पुण्यनक्षत्र एव कर्तव्यताज्ञापनार्थे स्नात्वा पुण्येऽहनीत्युक्तम् । श्रुतिः। 'समानस्याहः पञ्च पुण्यानि नक्षत्राणि चत्वार्य लीलानी'ति । तानि । नवभागमहः कृत्वा तत्र युमांशकास्तु ये । अलसंज्ञास्ते निन्द्या अन्ये पुण्याहकाशशुःाः ' । इति यद्वा – संस्कारहीममित्यनेन शारीरसंस्कारा गृह्यन्ते । पुण्येऽहनि स्रात्वा पुण्येऽहनि संस्कारणां होमञ्च जुहुयात् । अनुक्ततिथिवारनक्षत्रदिषु कर्तुमयुक्त त्वात् । गान्धर्वादिविवाहेषु कालनियमाभावात् तत्र पश्चाद्वा पुण्येऽहनि कर्त व्यताज्ञापनाथ खनात्वा पुण्यऽहनात्युक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रौनिवासास्यज्वना विरचिते श्रीवैखानससूत्रत्र्यास्याने तात्पर्यचिन्तामणौ पञ्चमखण्डार्थविवरणं समाप्तम् ।