पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सङ्कल्पस्य सर्वकर्मस्वपि कर्तव्यताज्ञापनार्थं सर्वसाधारणे पुण्याहे प्रतिपादनम् । ननु-दैविकानि कर्माणि प्राङ्मुखेन कर्तव्यानि । पुण्याहस्यापि दैविकत्वात् कथमुदङ्मुखेन क्रियत इति चेत्-उच्यते । शान्तिपर्वणि – 'यस्मादुत्तार्यते पापद्यस्मान्निश्श्रेयसं चरेत् । तस्मादुतारणफल्मदुत्तरेत्युच्यते बुधैः' ॥ इत्यतिशयगुणस्य विद्यमानत्वात् 'उदङ्मुखन्तु देवनां पितृणां दक्षिणामुख' ति शातातपस्मरणात् 'उदीचीनमुद्वासयति एषा वै देवमनुष्याणां शान्ता दिगि ' ति श्रुतेश्च पुण्याहस्य जपरूपशान्तिकर्मवात् ' उदङ्मुख इत्युक्तम् । स्थानं पुण्याहस्थलम् । यद्वा स्थण्डिलम् । 'शाम्यन्तु घोराणि । इन्युत्तरान्नं त्रिरपः स्रावयति ॥ ४ ॥

  • अतो देवा' इत्यग्रं दैविके ।। ५ ।।
  • सन्त्वा सिञ्चामि ? इत्यग्रं सूतके ॥ ६ ॥

शुची वो हव्य' इत्यग्रं प्रेतके ॥ ७ ॥ अतोदवा इत्यग्रमिति । ऋचामादौ अतो देवा इत्युक्ता सन्वा सिञ्चामि शुचीवो हन्या इत्यादि जपेत्। सन्त्वासिञ्चामीत्यग्रम्-आदौ सन्वा सिञ्चामि भतो देवाः -शुचीवो हत्या इति । शुची वो इच्येत्यग्रम्-आदौ शुचीोहन्य उक्ता सन्वा सिञ्चाभ्यतो देवा इत्यादि जपेत् । द्रविणोदाः - सपिता - नवी नवो - विद्युत् -शतं जीव - अष्ट) देवाः - हिरण्यरूपः - ऋद्धयामस्तोमं - आहार्षन्त्या - अर्यमणं - सोम' राजानं - इन्द्रावरुणा श्रिये जानः- या गुंगूः - यस्त्वा हृदा - यस्मै त्वं-नर्यप्रजां . सुत्रामाणं - शतायुधाग-दक्षिणावतां- भद्रं कर्णेमिः शतमिन्नु - अदितिघौं: ' इति ऋत्विजस्सर्वे वदेयुः ।। ८ ।। सर्वे आचार्याद्याः ।