पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमः खण्डः 14 देवाः-ऋषयः-पितरः-ग्रहाः-देव्यः ऋषिपत्न्यः-पितृपत्न्यः वेदाः यज्ञाश्च सर्वाद्याः प्रियन्तामन्ताः ॥ १ ॥ तथाऽन्तः प्रतिवचनम् ॥ २ ॥ आचार्यः ऋत्विजश्च, अन्तः मध्ये, यद्वा-मत्रान्ते िप्रयन्तमिति वदेयुः। पुण्याहं-शिवमायुष्यमारोग्यमविघ्रमचलमैश्वर्य-यत्पापं तत्प्रतिहतं यच्छेयः -शिवं कर्म-शिवः पक्षः इत्यस्त्वन्ताः ॥ ३ ॥ तथाऽन्तः प्रतिवचनम् ॥ ४ ॥ शिवा ऋतवस्सन्तु-शियानि नक्षत्राणि भवन्तु-सर्वकर्मसमृद्धि रस्तु सर्वधनधान्यसम्मृद्धिस्तु-इत्येकैकमुक्तावन्तः प्रतिवचनम्॥५॥ यत्पुण्यं स्वस्तिन-ऋद्धयास्स्मेति पूर्वोक्तमितरेऽनुवदेयुः ॥ ६ ॥ यपुष्यमित्यादिमन्त्रय आचार्येण पूर्वमुक्तमितरे ऋत्विजोऽनुवदन्ति। पुण्याहं भवन्तो बुवन्त्वित्युक्त ओं पुण्याहमित्यादिप्रतिक्चनम् ।

  • गजमानस्य नक्षत्रनामादिगोत्रनामान्तं मातृगोत्रनामान्तात्परं

शमन्तं नाम प्रणवादि भवन्तो बुवन्तु ॥ ७ ॥ अश्विन्यां आश्वयुजाय-गोत्राय ? लक्ष्याः सुताय शर्मणे अस्मिन् कर्मणि पुण्याहं भक्तो बुवन्विति । एवमेव भरण्यादिषु ।

  • अत्र सुदर्शनाचार्ये: कृतं विवरणम्

रोरेममृज्येचिषु बृद्धिरादौ ष्ठात्पे च शान्त्यश्रवणाश्वयुक्षु । शेषेषु नाम्वोः कपरस्वरोऽन्त्यः स्वाप्वोरदीर्घः सविसर्ग इष्टः । इदं फलितम् ।। रोहिणी रेवती मघा मृगशीर्षा ज्येष्टा चित्रा इत्येतेषु आदौ वृद्धिः । रूपञ्च रौहिण: रैवत: माघः मार्गशीर्ष: ज्यैष्ठः चैत्र इति । प्रोष्ठपदेत्यत्र ष्ठकारात्परे पकारे च वृद्धिः ! प्रोष्ठपादः इति । शतभिषक्-शातभिषजः । अन्त्य श्रवणाश्वयुक्षु । अपभरणः-आपभरणः । श्रवणः, श्रावणः । अश्वयुक्-आश्वयुजः, शेषेषु न । कृतिकः-तिष्यः-आश्रेषः-फल्गुनः-हस्तः-विशाखः-अनूराधः आषाढः - श्रदिष्ठः । आम्वोः कपरः स्वरोन्त्यः । आद्रकः- मूलकः । स्वाप्वोरदीर्घ सविसर्गश्च । स्वातिःपुनर्वसुः इति । (अन्त्यः-अपभरणः) ०८