पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अष्टमः खण्डः अथान्यायतनम् ॥ १ ॥ अथ-पुण्याहानन्तरम् । यद्वा शुद्धे सति । अग्न्यायतनम् 'कुण्डे वा स्थण्डिले वापि अनेरायतनं द्वधा' इति भृगुवचनात् अन्यायतनं कुण्डस्थण्डिल भेदेनद्विधोच्यते । कुण्डेषु किमिति चेत्। गार्हपत्याद्यग्रीनां तत्क्छोकाकारेण परिकल्पनमुपास्यत्वञ्च भगवच्छास्त्रे भृगुणा प्रतिपादितम् | यथा 'ब्रह्माऽमेिं पञ्चधा सृष्टा पञ्चलोकेष्वकल्पयत्। स्वर्गे चाहवनीयन्तु प्रतिष्ठाप्य ततः परम् । तथाऽन्तरिक्षेऽन्वाहार्य द्वितीयं परिकल्प्य च । भूम्याञ्च गार्हपत्या,ि महलॉके तथैव च । आवसथ्यं, जनोलोके सभ्यश्चामिकल्पयत् । चतुरश्रो यतः स्वर्गः कुण्डञ्चाहवनीयकम् । चतुरश्रे समाख्यातं, चापवचान्तरिक्षकम्। भन्वाहार्यस्य कुण्डञ्च धनुराकृतिवत्ततः ॥ आकृतिर्मण्डलकारो भुवस्तस्मात्तथाविधः। कुण्डच गार्हपत्यस्य, महलॉकः त्रियश्रकः ॥ आवसत्यस्य तु प्रोक्तः तथा कुण्डस्त्रियश्रकः । चतुरश्रेो जनोलोकः कुण्डस्सभ्यस्य तादृशः । आकारश्चाप्यथैतेषां तत्तलोकसमं विदुः ।' इति । श्रुतावपि–“ अग्रयो वै त्रयी विद्या देवयानं: पन्थाः, गार्हपयः ऋक् पृथिवी रथन्तरम्, अन्वाहार्यपवनो यजुरन्तरिक्षं वामदेव्यमाहवनीयः साम सुवों लोको इत्, तसादमीन् परमं वदन्ति ।' इति ।