पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने यथा कालतो देशतो क्स्तुतश्चापरिच्छिन्नमूर्तेः भगवतो नारायणस्योप सनार्थ उत्तमदशतालादिमानपरिकल्पनं 'अङ्गुष्ठमात्रोरक्तुिल्यरूपः सदा जनानां हृदये सन्निविष्टः । इति श्रुतेरङ्गुष्ठमात्रपरिकल्पनं च, एवमेव तदुपासनार्थश्च कुण्डानां त्रिंशदङ्गलादिपरिकल्पना । आयतनकल्पनाभावेतु उपासितुमशक्य त्वादन्याय तन्मुक्तम् । प्राक्प्रवणे चोत्तरप्रवणे वा शुद्धे देशे गोमयेनोपलिप्ते शुद्धाभि सिकताभिः प्राक्पश्चिमं दक्षिणोत्तरञ्च द्वात्रिंशदक्ष्यगुलायतं द्यङ्गु लोन्नतं यथालाभोन्नतं वा स्थण्डिलमग्न्यायतनं भवति ।। २ ।। श्रुतिः– 'पृथिव्यै मेध्यञ्चामेध्यश्च युदक्रामतां प्राचीनमुदीचीनं मेध्यं प्रतीचीनं दक्षिणाऽमेध्यं, प्राचीमुदीचीं प्रवणां करोति मेध्यामेवैनां देवयजनीं करोति । इति । किञ्च विशेषफलमपि प्रतिपाद्यते । बोधायनः । * प्राचीन प्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यकामस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य ? इति । गोमयस्य लक्ष्या निवासत्वेन शान्तिपर्वण्यभिहितत्वात् गोमयेनोपलिप्ते इत्युक्तम् । शुद्धाभिः सिकताभिः । दोषरहिनाभि:। सिकता दोषास्तु भगवच्छास्त्रे मरीचिना प्रसिादिताः । यथा – ‘अथातः सिकतादोषं व्याख्यास्यामः । भस्मकेशतुषकपालशर्करातृणास्थिपिपीलिकासिकता वर्जयेत् । भस्मना यजमानक्षयः केशेन स्रीमरणं तुषेण पुत्रहानिः कपालैरर्थनाशनं शर्क राभिः बन्धुवियोगः तृणेन कर्मक्षयः अस्थिना ग्रामनाशनं पिपीलिकाभिः राष्ट्रनाशनं आसिकताभिव्यधिभयं भवति' इति । बोधायनेनाप्युक्तम् । 'वैश्वानर रूपत्वासिकताभि' रिित । श्रुतिश्च । 'सिकता निवपति । एतद्वा अग्नेवैश्वा नरस्य रूप 'मिति । देवलः- 'यत्र प्रसूयते वापि म्रियते हन्यतेऽपि वा । चण्डालअध्युषितं यत्र यत्र विष्ठादिसंहतिः । । एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां क्रजेत् ।