पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टभः खण्डः] अङ्गारतुषकेशाचैरथिभिर्मलिना भवेत् । पञ्चधा वा चतुर्धा वा भूरमेष्या विशुद्धयति । दुष्टा तु या द्विधा कृत्वा शुद्धयते मलिनैकधा ।(१) इति । 'केवलैस्तण्डुलैर्वापि तच्चूर्णेन मृदापि वा । गौरवर्णेन कुर्वीत स्थण्डिलं चतुरश्रक' मिति ॥ प्राक्पश्चिमं दक्षिणोत्तरञ्च । चकाराचतुरश्रत्वम् । यद्वा चकारेण न्यूनाति रिक्तत्वशङ्कानिरासः, वास्तुपरीक्षामधिकृत्य कश्यपेनोक्तम्-यथा । “अध्य अत्र घीयामं भौतिकं द्विदीर्षायामं राक्षसं किञ्चिद्धीनमासुरं किंचिद्दीर्घ पैशाचमित्य तस्सर्व समं चतुरश्र मण्डलं वा दण्डेन समुपकल्प्य खानये ? दिति । द्वात्रिंश दख्गुलायतभित्यादि । अझुललक्षणम् । स्वहस्तेनाष्टतालो यस्स वै मध्यमपूरुषः । तस्य दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणा ॥ मध्यमेन मितं यत्तन्मात्राङ्गुलमिहोच्यते । गृहं शय्यासनं यानं पात्रमायुधमेव च । इध्मछुक्लुवजुहादीन् कुर्यान्मात्राकुलेन वै । मुष्टिमध्यप्रमेयस्यात् सोऽमिकुण्डाऽदिकल्पने ।। मेदो मात्राकुलस्यैव शाखाझुलसमाह्वयः' इति । भौते:- ‘सर्वेषां याजिकानां यजमानस्याध्वयोर्वा दक्षिणहस्तस्य मध्यमाकुलेर्मध्यम पर्वणा मानमाचरति । इति । वाशब्दो विकल्पार्थः केवलभूमिपरः । । परिस्तरणबर्हिषः प्रतिदिशं पञ्चदश स्थण्डिलप्रमाणाः ॥ ३ ॥ पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर अप्यते । ‘संवत्सरः प्रजापतिः? इंति श्रुतिः । यद्वा “पञ्चदशो क्ज़ो आतृव्याभिभूत्यै इति ।