पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः] श्रीवैखानसगृह्यसूत्रम् इति लोकाक्षिस्मरणात् । श्रुतिस्मृतिपुराणेषु विरुद्धेषु परस्परम् । पूर्वपूर्वं बलीयस्यादिति वेदविदो विदुः' ।। इति स्मृत्यन्तरवचनाच श्रुत्यनुसारेण द्वाभ्यामेव कर्तव्यम् । तत्प्रमाणा याज्ञिकास्समिधः ।। ८ ।। अत्र यथा तच्छब्दः पञ्चदशस्ङ्खयां विहाय दैर्यमात्रपर्यवसायी तथा पूर्वत्रापीति भावः । द्वादशाङ्गुलप्रमाणा इत्यर्थः । पावधुःादयो यज्ञे प्रोक्ताः ।। ९ ।। यज्ञोक्तवृक्षाः पात्रसुवादयः । पात्रशब्देन ग्राह्याः 'जुष्टाकारद्वयं पात्रं ब्रह्मसोमैौ तथैव च । प्राणिधी चाज्यपात्रश्च सप्तपात्रं पृथक् पृथक् ।।' इति वासाधिकारे उक्ताः । सुवादयः लुवजुहूपभृदादयः । यज्ञे यज्ञीये यज्ञसूत्रे प्रोक्ताः वक्ष्यमाणः। श्रौते – 'जुद्दादीनां लुचां चतसृणामायामश्चतुर्विंशत्यङ्गुलं बाहु मात्रं वा, मूलेन मूलमग्रेणाग्रे त्वक्पाश्चोंध्र्वबिलञ्च कर्तव्यम् । दण्डस्यायामो द्वादशाङ्गुलं मूलनाहमष्टाङ्गुलमग्रनाहं षडङ्गुलं तदूर्वे द्वादशाङ्गुल तमिस्त्र्यङ्गुलं घनं पड्डुलविस्तारमग्रं गजोष्ठवद्वा बिलं निन्नमग्रान्तं घृतधारापातार्थे कुल्याञ्च कारयेत्। ध्रुवा दण्डस्योध्वं चतुरङ्गुलं घनं मध्ये ह्यङ्गुलं निन्नचेति विशेषः । जुहू वदायामौ दर्शपूर्णमासामिहोत्रार्थो छुवैौ। द्वयोश्च दण्डायाममेकविंशत्युकुलं तन्मूल मप्रञ्च पूर्ववद्दण्डोध्र्वे दाङ्गुलं घनं नासिकवद्विपुटं बिलं तत्पुटयोर्विस्तारं निश्चैकाङ्गुलम् । एतेषां बाहुमात्रायामेऽप्यविशेषः । ऊध्चें साग्रं बिलमेकमेवेति विज्ञायते । शिष्ट दण्डायामं कुर्वीत । स्फ्यस्यायामो द्विप्रादेशः । तस्य विस्तारं घनश्च दाजुलं हंसस्य मुखवन्मूलं खननार्थमयं कुशतीक्ष्णश्च ।२१-७॥ शम्या जुहूक् दायामा तथैव दण्डस्य मूलमग्रञ्च । दण्डं विंशत्युकुलध्र्वेऽग्रे चतुरङ्गुलं पद्मस्य मुकु ोपमं कुम्बमेतस्य बाहुप्रमाणे चैवं कुम्बशेषं दण्डायतं कुर्यात् । अष्टाङ्गुलेि 15