पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्ड:]] तृणमृत्ाष्ठाश्मलोष्टलोभादीन् विसृजेत्। पिरस्तरणकूर्चपक्स्रादीनां बर्हिरुक्तौ कुशान् काशानावालान्वा तदलामे सुगन्धितेजनमुझेोलपश्यामाकनीवार सस्य दूर्वातृणान्यन्यानि पलालानि वा गृह्णाति । शुष्ठशरशूकविशीर्णतृणनडदमूत बल्बजानि वर्जयेत्। परिधीध्मोक्तौ पलाशखदिरबिल्वाश्वत्थशमीनां शाखाः समिध परिधयश्च मुख्या । विकङ्कतोदुम्बरन्यग्रोधप्लक्षकार्मर्यपैौतुद्रवरोहितकादीनां यज्ञोक्तवृक्षाणां मध्यमाः। तदन्यवनस्पतीनां गौणाः । स्क्यं शुष्का न ग्राह्याः । (२१०) । त्रिपर्णास्सर्वे पलाशोपमाः । सर्वत्र विहितद्रव्याभावे प्रतिनिधीन् गृहीयात् । अनामिकाङ्गुलिनाहाः मुख्याः कनिष्ठाङ्गुलेिनाहा मध्यमा न्यूननाहा गौणाः । शम्योदुबराः परिधय इत्येके । मूलाग्रे विज्ञाय प्रागश्यः समिधो होतव्याः । निम्बश्लेष्मातकनीपतिल्वराजवृक्षविभीतकशाल्मलि कोविदारकरञ्ज बाधकारुनिर्गुण्डीफ्लअण्डुजपानां समिधः परिधींश्च वर्जयेत् । हविरुक्तौ यवनी वारवेणु श्यामाकबीहिजतिप्रियङ्गबो धान्यानि हविष्याणाम् । तेषामलाभे मूलकन्दफलानि ग्राह्याणि । सर्वेषु धान्येषु वरकोदारकोद्रवाणि वर्जनीयानि । आज्योक्तौ गव्यं घृतं श्रेष्ठम् । तदलाभे धृतं आर्ज माहिषं वा । तदलाभे पयस्तैलं सर्षपं प्रतिनिधिः । कुसुम्भासीनारिकेलवृक्षाणां स्नेहमन्यच यद्रस वद्भोज्यं तद्वापि पिष्टमिश्श्रेोदकञ्च होम्यं भवति । अभोज्यं गन्धरसदुष्टश्च वर्जनीयम्। सर्वेषांपूर्वं पूर्वं श्रेष्ठतमम्। पूर्वेषामभावे परं गृह्यातीति। (२२-११)। व्यासः– 'हव्यार्थे गोघृतं ग्राह्य तदलभे तु माहिषम् । आजं वा तदलाभे तु साक्षातैलमपीष्यते' । इति श्रुतौ च-'वषट्कारो वै गायत्रियै शिरोऽच्छिनत् तस्यै रसः परापतत् स पृथिवीं प्राविशत्। स खदिरोऽभवत् यस्य खादिरः सुवो भवति छन्दसामेव रसेनावधति सरसा अस्याहुतयो भवन्ति । तृतीयस्यामितो दिवि सोम आसीतं गायत्र्याहरत्तस्य पर्णमच्छिद्यत तत्पणोंऽभवत्तत्पर्णस्य पर्णत्वम्। यस्य पर्णमणीयी जुहूर्भवति सौम्या अस्याहुतयो भवन्ति जुषन्तेऽस्य देवा आहुतीः । देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाश्रृणोत् सुश्रवा वै नाम । यस्य पर्णमयी जुहूर्भवति न स पाप लोकः शृणोति । इत्यादि। ११५