पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शालालक्ष्णादिकं श्रौते प्रतिपादितम् । 'गृहे सौग्ये पश्चिमपूर्वायतां तथाऽनुवंश. पूर्वदक्षिणयोर्द्धरयुताममिशालां कल्पयति । अस्थिरोमकेशतुषाङ्गार काष्ठाश्मलोष्टपिपीलिकादीन्वर्जयित्वा मृदा शुद्धया पश्चिमे'मूरिति गार्हपत्यायतनं रज्ज्वऽष्टादशाङ्गुल्या वृतं आमक्त्विाऽष्टाहुलोझतं स्थण्डिलं कृत्वा परितश्चतु रङ्गुलिविस्तारं हित्वा मध्ये पडडुलनिम्नं खनति । शिष्टं तदृध्र्वमेखला स्यात् । तत्परिगतां चतुरङ्गलिविस्तारोन्नतामधोमेखलां करोति । तत्माख्यामष्टपदमक्रमे ब्राह्मणस्यैकादशपदमक्रमे क्षत्रियस्य द्वादशक्दप्रक्रमे वैक्स्यापि 'भुवरित्याह नीयाम्यायननं चतुरश्र चतुर्दिक्षु द्वात्रिंशदकुल्यायतमष्टाङ्गुलोन्नतं स्थण्डिलं प्रकल्प्य पूर्ववत्परितो हित्वा मेखलामूध्र्वा मध्ये निन्नमधोमेखलां करोति । द्वयो र्मध्ये ‘वेदिर 'सीत्युक्ता गार्हपत्याहवनीयसम्बन्धां दक्षिणोतरयोश्चतुरङ्गुलेिविस्ता रोमां तदन्तरे षोडशाङ्गलिविस्तारां वेदिं कुरुते । (१२-२)॥ वेद्यां दक्षिणस्य पश्चिमभागे सुवः'इत्यन्वाहार्यपचनं पञ्चविंशत्युकुल्या वृतं भ्रामयित्वा दक्षिणाधेऽर्ध चन्द्राकारं स्थण्डिलं पूर्ववत्तस्योन्नतं मध्यनिन्नमूर्वाधरा मेखला च । वेद्युत्तरं त्रिधा कृत्वा पूर्वभागेोत्तरे प्रक्रमे वेद्युन्नतमुत्करं कुर्यात् । “आहवनीया प्राच्यां 'जन' इति सभ्याम्यायतनं द्वादशाङ्गुलोन्नतमाहवनीयवचतुरश्र स्थण्डिलं परितस्तथैव हित्वा द्वादशाकुलं मध्यनिम्नं चतुरङ्गुलिविस्तारोन्नतास्तस्रो मेखलाः । पञ्चाङ्गुलिविस्तारा मध्यमा मेखला । तस्माच्यां 'मह' इत्याक्सत्थ्याम्यायतनं त्रिकोणे पधिमदक्षिणोत्तरेषु पञ्चचत्वारिंशदङ्गुल्यायतं स्थण्डिलं तस्योन्नतं मध्ये निम्नं द्वे मेखले च पूर्ववत्। आवसथ्यं चतुरश्रमित्येके । सर्वेषां याज्ञिकानां यजमानस्याध्वर्योर्वा दक्षिणहस्तस्य मध्यमाकुलेर्मध्यमपर्वणा मानमाचरति इति । (१२-३) ॥ नित्यहोमेऽग्रिशालायां मृदा चतुर्देिशं द्वात्रिंशदक्षगुलायताँ चतुग्ङ्गुलविस्तारां यङ्गुलोलतामृध्र्ववेदि चतुरङ्गुलविस्तारोभतां तत्परिगतामधेोवेदिं मध्ये निद्रं षडङ्गुलमग्रिकुण्डं कृत्वा अस्मिन् गृहस्थोऽमिौपासनमाधाय नित्यं जुहोति ॥ ११ ।।