पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामभिसहितम् [प्रथम प्रश्ने अस्मिन्नित्यनेन चुल्यादावौपासनप्रतिषेधः । ‘न चुल्यामौपासनं जुहु या'दिति बोधायनः । कुण्डे स्थण्डिले वा कर्तव्यमित्यभिप्रायेण असिन्नित्युक्तम्। गृहस्थ इत्युक्तत्वादितरेषां निवृति: । औपासनमिति ।

  • विवाहादि गृहस्थेन निधायाजशमेव च ।

होमैरुपासनादमिरैपसन इतीरितः' । इति भृगुः अन्यत्र- 'यद्वाऽऽहवनभेदोऽयमरौिपासनो यतः । कुण्डमौपासनस्यापि ज्ञेयमाहवनीयव'दिति । अत्र विशेषः विले । दक्षिणे ब्रह्मणः स्थानं षोडशाङ्गलमायतम् । चतुरश्र समं कृत्वा भागोन्नतमनिन्दिताः ॥ तस्य पश्चिमभागे तु पितृस्थानं प्रकल्पयेत् । षोडशांगुलमायाममुन्नतं गोलकं भवेत् । शूर्णाकारञ्च कृत्वा तु दक्षिणाग्रे प्रकल्पयेत् । उत्तरे सोममुद्दिश्य षोडशांगुलमायतम् ॥ भागोन्नतं तथा कुर्यात्समवृतं विचक्षणः । वेदिप्रमाणं कर्तव्यं............. ॥ इति वनस्थस्य श्रमणकाग्नेः कुण्डमाधानविशेषश्च धर्मे वक्ष्यामः॥१२ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ अष्टमखण्डार्थविवरणं समाप्तम् ।