पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाऽषारविधानम् ॥ १ ॥ अथ -कुण्डसम्भारादिसङ्गहणानन्तरम् । आधारविधानमाघारविधिः । शिरो वा एतद्यज्ञस्य यदाघाः ' इति श्रुतेः, 'शिरो वा अग्रे सम्भवति, चतुर्धा विहितं वै शिरः प्राणांश्चक्षुः श्रोत्रं वागात्मे' ित छन्दोगब्राक्षणवचनात्, शिरस्येव प्राणा धीयन्ते' इति श्रुतेश्च आधारविधानमित्युक्तम् । ब्रह्म प्राङ्मुखमासीनः ‘एतोविन्द्र' मित्यग्न्यालयं प्रोक्ष्य 'मयि देवा' इत्यादिभिश्चतुर्दिशं दर्भानुक्षयेत् ।। २ ।। ब्रह्मासनलक्षणं ब्रह्मयज्ञे उक्तम् । प्राङ्मुखमासनं यथा भवति तथा । छन्दोगत्राह्मणे – 'माञ्चोऽस्य ऋत्विज आर्विज्यं कुर्वन्ति तस्मादेषा दिशां वीर्यवत्तमा। एतां हि भूयिष्ठाः प्रीणन्ति। ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्माञ्चोऽन्य ऋत्विज आर्विज्यं कुर्वन्ति विपरिक्रयोद्रातारः इति दिशामभिष्यै विशामभि प्रीत्या इति ब्रूयात् । तस्मात्सर्वासु िदक्ष्वत्रं विद्यते सर्वाशभीष्टाः प्रीता'इति । यजुषि ‘देवमनुष्या दिशो व्यभजन्त'-'प्राचीं देवा दक्षिणां पितरः। इत्याद्युक्तः प्राङ्मुखमित्युक्तम् । 'आसीनो हविर्यज्ञादिषु ऊध्र्वतिष्ठ'न्निति तिष्ठतो होमविधानात् निषेकादिष्वपि तथेति शङ्कायां तद्यावृत्यर्थमासीन इत्युक्तम्। पाकयज्ञसंस्थानां न तिष्ठद्धोमो विद्यते । इति बोधायनस्मरणात् पाकयज्ञेष्वेवेति चेन्न-'सर्वहोमानामादिराघारो विज्ञायते ? इत्युत्तरत्र वक्ष्यमाणत्वात् । अत्र केचिदूचुः-ब्राह्म प्राङ्मुखमासीन इत्यिमपरत्वेन । तदसत्। कर्तृनियमाभावात् उदछुखेनापि कर्तुमुचितं भवेत् । कात्यायनः- 'यत्र दिङ्कनियमो नास्ति जपहोमादिकर्मसु । तिस्रस्तस्य दिशः प्रोक्ता ऐन्द्री सौम्या पराजिता ।। आसीन ऊर्व ग्रहो वा नियमो यत्र नेदृशः। तदासीनेन कर्तव्यं न प्रहेण न तिष्ठता' ॥ इति ।