पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् आसनोक्तौ प्रचेताः । गोशकृन्मृन्मयं भिन्न तथा पालाशमेव च । लोहाश्वत्थं तथैवार्क वर्जयेदासनं बुधैः' । इति । ग्राह्माणि यथा :- ' उदुम्बरवटश्वत्थलक्षजम्बूकमादयः (?) । अश्मपीठस्तथा चैवाप्यटवीस्थतरुद्रवा ? ।। इति । [प्रथम प्रश्ने सर्वशुद्धयर्थे प्रोक्षणम् । छन्दोगब्राह्मणे-'शुद्धाशुद्धीये भवतः । यजुषि –“ इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्' अन्यत्र –‘तमश्लीला वागभ्यवदत् ! सोऽशुद्धो मन्यत । स एते शुद्धाशुद्धीये अपश्यत् ताभ्यामशुद्धयत्। यदेव बहु प्रतिगृह्य यदनं(?) नमति । यदशुद्धो मन्यते । तदैताभ्यां शुद्धयति । इति। षडिंशब्राह्मणे च–“बहु प्रतिगृह्य याजयित्वा वा सन्नमात्मानं मन्यमानो गोसूक्ताश्वसूते शुद्धाशुद्वीये तरत्समन्दीत्येताः प्रयुञ्जानः पूतो भवति' इति । उक्ष्येत् इति। दक्षिणहस्तेनोत्तानेन सेचन क्षणं करतलमवाक् कृत्वा सेचन मवोक्षणं ऊध्र्वाङ्गुष्ठन मुष्टिनाऽभितः सेचनमभ्युक्षणम् । एवं कूर्चेन वा कुर्यात् । 'अपामेव मेध्यांशा दर्भाइति श्रूयते । तथा यजुषि-'इन्द्रो वृत्रमहन्त्सोऽपोभ्यं म्रियत । तासां यन्मेध्य यज्ञियै सदेवमासीत्तदोदकामत दर्भा अभवन्। इत्यादि । 'उद्धन्यमान 'मिति मध्यपूर्वापरयमाग्रिनितिसोमेशानमरुतो बर्हिषा खनति ।। ३ ।। खननममेध्यांशनिरसनार्थम् । श्रुतिः । 'उद्धन्ति यदेवास्या अमेध्यं तदष्हन्ति ? इति। 'उद्धन्ती 'ति अत्र बोधायन: - 'न लोष्टन न काठेन शर्करैर्न नखैः क्रियात् । काष्ठन व्याधितश्च स्यालोटेन कुलनाशनम् । शर्करैः पुत्रनाशः स्यान्नखैर्वधुविनाशनम्' ॥