पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१ इत्युक्तत्वात् सुवणरजततात्रशकलन व्रीहिभियैवैर्वा खननमुच्यते द: तदछुछेन चेति । श्रौते च-'उद्धन्यमानमिति सौवर्णेन रौक्मेण राजतेन वा नूवधा खने । दिति । तथा 'पूतह्यत' नेनेति षड्रेखा लिखित्वा ' अष्टाबन्ध 'मिति वक्रितं दर्भ दक्षिणपश्चिमस्यामुत्सृज्य रेखा गायत्र्या प्रोक्ष्य 'जातवेदो भुवनस्येत्यरणिं गृहीत्वा मथितं लैौकिकं वाऽग्रिमादायाऽऽहरेत ।। ४ ॥ तथा खननप्रकारेण यद्वा 'प्रादेशसमिताः प्रागन्तास्तिस्रःतिस्रस्तथोत्तरे रेखाश्च षडुलिखति' इति श्रौोक्तवत् । निरुक्ताधिकारेः* अग्रिकार्यविधिं वक्ष्ये सर्वलोकहिताय च' । इत्यारभ्य 'प्रागग्रातिस्रो रेखास्तु उदगग्रास्तथैव च । ब्रह्मा चैव यमस्सोमो मध्ये दक्षिणवाम्योः । प्रागप्राणां तिसृणान्तु अधिदेवाः प्रकीर्तिताः ।। रुद्रः विष्णुश्च शक्रश्च मध्ये पश्चिमपूर्वयोः । तिमृणामुदगग्राणामधिदेवाः प्रकीर्तिताः ।।' इति उक्तम् । खननं पितृदेवत्यम् | पितृदेवत्यस्य दक्षिणान्नत्वेन कर्तव्यत्वात् आघारम्य दैविकत्वाच मध्यस्थतामवलम्ब्य प्रत्यगन्नत्वेनोत्तरान्त्वेन चोक्तम् । मनु :- * सम्मार्जनेनाञ्जनेन सेचनोलेखनेन च । गवाञ्च परिवासेन भूमिश्शुद्धयति पञ्चभिः' । इति । द्वेप्यनिरसनाथं विसर्गः । श्रौते – ‘राक्षरौद्रनैश्तपैतृकच्छेदनभेदनखनननिरसनावघ्राणात्माभि मर्शनानि च कृत्वा सर्वत्राप उपस्पृशे । दियुक्तत्वात् विसर्गानन्तरं उपश्पर्शः । गायत्र्या प्रोक्ष्य– छन्दोगब्राह्मणे ।चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री । तेज एव ब्रह्मवर्चममवरुन्धे । प्राणो गायत्री प्रजननम् । प्राणादेव गायत्र्या प्रजायन्ते ? इति । 16