पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२३ भी जीनिवासनलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न अरजिष्क्षणादिकं श्रौते उक्तम् । यथा-'अथाम्याधेयं व्याख्यास्याम इत्यारभ्य- यथोपपादं शमीगर्भमश्वत्थं, यद्यशर्मीगर्भ शुङ्गांकुरं अशनिवाय्क्नु पहतं अभ्यदग्धं बहुपक्ष्यनावा, अशुष्कमशीर्ण अन्यजात्यनुपहतं गत्व वैश्वानरसूक्तन प्रदक्षिणं कृत्वा, प्रणमेत् । तेनैव प्राचीमुदीचां वा शाखां प्रागादिप्रदक्षिणं छेदयित्वा प्रागप्रमुदगग्रं वा निपतयेत् । पतत उत्तरमधरं मूलम च यथ ज्ञेयं तथा अङ्कयित्वा शाखापन्नाणि प्राहापयति । तां द्विधा छेदयित्वा अधोभागेन अधरारणिं त्वक्पावध्वभागां विगतत्क्चमविशोषितां चतुर्विंशत्यंगु लायतां अष्टांगुलविस्तारां चतुरंगुलोन्नतां, तथोत्तरभागेन उत्तरामणिं च गायत्र्या करोति । तत्र प्रथमानि यानि चत्वार्यगुलनि शिरश्धक्षुः श्रोत्रमास्यं च, द्वितीयानि यानि प्रीवाक्क्षेोहृदयस्तनाः, तृतीयानि उदरप्रभृतीनि, चतुर्थानि श्रेणी, पंचमान्यूरू, षष्ठानि जड़े, पादावित्येके । एवमरणी संवैरंगेः पूर्णे भवतः । यच्छीणि मन्थति, शीर्षीक्तिमान् यजमानो भवति, यद्ग्रीवायां वेपनः, यदुदरे नारब्धोस्य यज्ञो भवति, ऊरू रक्षसां योनिः, जंघे पादौ पिशाचानां, श्रोणी देवानां योनिः, तस्मात् श्रेोण्यामेव प्रथमं मन्येत् । मूलदष्टांगुलं परित्यज्य अग्राञ्च द्वादशांगुलं पतीणि त्रीण्यंगुलनि, प्रथममन्थने एवं प्रजननं कुर्वीत । उत्तरारणेः अष्टांगुलं युक्तनाहे प्रमन्थं च्छित्वा, मन्थमूले सन्धते । तेन सहितः षटुिंशत्यगुलायतो मन्थो भवति भद्रमित्युताना प्रक्छिरा । तथा अरणिः तथा वेदिः' इति । ननु - श्रीविष्णुपुगणे मानुषे लोके मया क्तव्यमिति कृतमतिमृर्वशी दशैत्यादिना ऊर्वशीपुरूरवसोः संयोगादिकं प्रतिपाद्य अनन्तरं गन्धर्वरदान मूर्वश्या सहवासप्रार्थनां तदर्थममिस्थालीदानं तद्ग्रहणमटव्यामेवास्थिालीविस जैन स्वपुरप्रवेशनं. पुनरमिस्थालीग्रहणार्थ स्वपुरान्निर्गमनं तत्राझिस्थाल्यदर्शन प्रतिपाद्य शमीगर्भधाश्वत्थममिस्थाने दृष्टा पुरूरवाः –“मयात्रास्थिाली निक्षिप्ता सा चाश्वत्थशमीगभोऽभूत् । तदेतदेवामिरूपमादाय स्वपुरमभिगम्यारणिं कृत्वा तदुत्पन्नाग्नेरुपति करिष्या । मीति सङ्कल्प्यैवमेव स्वपुरमुपगतोऽरणिं चकार । तत्प्रमाणञ्चांगुलैः कुर्वन् गायत्रीमपठत् । पंठतश्चाक्षरसङ्कयान्येवाङ्गुलान्यभक्न् ।