पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवमः खण्डः] श्रीवैखानसगृह्यसूत्रम् १२३ अत्राझिमाझायानुसारी भूत्वा जुहाव ऊर्वशीसालोक्यं च फलमपेिदिवानिति कथा। अत्राल्पस्थिरफलोर्वशीसङ्गमनार्थं तत्रोत्पन्नाग्रुपासनं किमर्थमन्यैः क्रियत इति चेत्-सत्यम्।'यनि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामाः । एष वः पन्थाः सुकृतो ब्रझलोके इयाथर्वणश्रुतेः उपपन्नसेव । अयमर्थः त्रेतायां खेताद्रौ यद्वा त्रयी, तस्यां वेदोदितकर्माणि सत्यकामाः सत्यशब्देन चिदछिरीरकः परमात्मा। यद्वा यथार्थभूतः । तत्प्राप्तिकामाः तान्याचरथ । एष वः पन्था इति। तथा तस्मादसक्तः सतत कार्यं कम समाचार । असक्तोऽह्याचरन् कर्म परमाप्नोति पूरुष ' । इति च भगवद्वचनम् । 'यस्तु वै भगवत्मत्या कुर्याद्यज्ञादिकर्म यत् । तद्विशिष्टमिति प्रोक्तं सामान्यमितरत् स्मृतम् ।।' इति स्मृतिः । 'य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते' इति श्रुतिः । अतः काम्यान्यपि कर्माणि यद्यनभिसंहितफलानि तदा भगवठप्रीतिद्वारा अनन्तस्थिर फलानि भवन्ति । अन्यथा “ यो हवा एतदक्षरं गार्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तबदेवास्य तद्भव' तीति श्रुतेः विपरीतफलानि स्युः ।

  • समस्तयज्ञभोक्तारं ज्ञात्वा विष्णु सनातनम् ।

दैवं पित्र्यं तथा यज्ञ कुर्यान्न तु परित्यजेत्' । इति चोच्यते । अरणिं गृहीत्वा। ‘शमीगर्भादमिं मन्थति। एषा वा अग्नेर्यज्ञिया तनूः । तामेवास्मै जनयति । इति श्रनि । घा शब्दः तत्तदग्रीनां भेदमदर्शकः । यथा यस्मिन् विवाहः क्रियते सोऽग्गृिह्य इति स्मृतः । जातकर्मादिसिद्धयथै यो व्याहृतिभिराहृतः । सोऽग्रिः पौरुष इत्युक्तः शालामिलौकिकस्तथा ।।' इति । वाशब्दात् पौरुषाभ्यादि. मथितं लौकिकं वा आहरेतेति । औपास नामिश्चेन्मन्त्रलोपः। मथितं लौकिकं वेत्युक्तत्वात् आदायाहरेतेत्युक्तत्वाच