पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ श्री श्रीनिवासमखिकृत-तात्पर्वचिन्तामणिसहितम् प्रथम पूर्वमेव सिद्धानामैपासनाद्यग्नीनामरणिग्रहणापेक्षाभावात् समित्समारोपणे धार्यानि विषये च लोपः । अर्थाभावात् । समित्समारोपणेऽभ्युदयः । तत्राप्यकरणे न दोषः । यद्वा श्रुत्युक्तमार्गेणान्याहरणम् । 'घृतप्रतीक' इति प्रज्वान्य 'आयुर्दा' इति प्रणम्य 'उपाव रोइ । इति निधाय 'अग्र आयाहि – ' अयन्ते योनेि 'रिति प्रज्वान्य 'मयि गृहामि ' इत्यभिवन्द्य 'कर्मणे वा' मिति कौ प्रक्षालयति ।। ५ ।। स्मृत्यन्तरे- 'वखेण वाथ पर्णेन पाणिशूर्पस्यदारुभि । न कुर्यादमिधमनं न कुर्याद्यजनादिना' । इति सश्हे- * पर्णेन वै भवेद्याधिः शूपेण धननाशनम् । पाणिना मृत्युमाप्तोनि आयुःक्षीणं मुखेन च ॥ धमनीमन्तरे कृत्वा तृणं वा काष्ठमेव वा । मुखेनामेिं समिन्धीत मुखोऽनिरजायत ' । इति । ननु-सूतान्तरष्वनुक्त मन्त्रण ज्वलन किमर्थमिति चेत्--ब्रह्मवर्चसादि फलार्थम् । छन्दोगब्राह्मणे-' त्रीणि धनमाग्नेयं भक्ती' त्यरभ्य 'अमि स्सृष्टो नो दीप्यत । तं प्रबपतिरेतेन साम्रोपाधमत् । स उद्दीप्यत । दीप्तश्च ह वा एतत्साम ब्रह्मक्चैसञ्च दीप्तिचैव तेनाक्रुन्धे ' इति । शाखाभेदान्मन्त्र रूपेणोक्तम् । रक्षणार्थ प्रणामः । भूयुः - 'यत्र यत्र च काष्ठानि तत्र कर्ण विदुर्बुधाः । धूमः स्वल्पतरो यत्र नासिकामपि तद्विदुः ॥ मन्दमज्वलनं यत्र तत्र नेत्रं प्रचक्षते । अङ्गापुञ्जमग्नेस्तु शिरश्शंसन्ति पण्डिताः । महत्मज्क्लनं यत्र मुखं तत्र विशिष्यते । क यदि हुवेद्याधिर्नासिकायां महद्भयम् ॥