पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः] खानसगृह्यसूत्रम् चुक्षुष्यन्धो भवेकिन्तु मस्तके सर्वनाशनम् । अन्यैः कराचैर्दारिदूं तस्मादन्यैर्विचार्य च । शरोऽङ्गारेण सम्मन्त्र्य जिह्वाग्रे जुहुयात्सुधीः' । इति । छन्दोगब्राह्मणे सुसमिद्धे होतव्यम् । अवैि सर्वा देवताः । सर्वा एव देवताः पश्यन जुहोति ' । इति स्मृतौ- 'योऽनचिषि जुहोत्यौ व्यङ्गारिणि च मानवः । मन्दाग्रािमयावी च दरिद्रश्च स जायते ? ॥ इति । १२५

  • यातयामान्यन्यानि छन्दांस्ययातयामा गायत्रीति छन्दोगब्राझणे मन्त्रा

न्तरेणोक्तम् । मन्त्राः कृष्णाजिनं दर्भा ब्राह्मणाः हविरग्रयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः ।। इति । स्मृतावन्यत्र – 'दर्भाः पिण्डेषु निर्माल्या ब्राह्मणाः श्राद्धभोजने । मन्त्राः शूद्रेषु निर्माल्याः चित्याचैव हुताशनः । । इति पिण्डादिघूपहतानां दर्भादीनामेव त्यागः । वेिश्च । 'यो ह वा अविदितार्षेय छन्दो देवता ब्राह्मणेन मन्त्रेण याजयि वाऽत्याफ्यति वा स्थाणु वच्छंति गैतं वा पद्यते प्रवा मीयते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेतीत्यादिश्रुते अविदित्वा ऋषिछन्दोदैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः' ॥ इति स्मृतेश्च ऋषिर्छन्दोदेवतारहितानां मन्त्राणां यातयामत्वादिकं ज्ञायते । आधारादिषु कथमिति चेत्। सत्यम् । यद्यपि प्रत्येकमृपिछन्दोदेवता नात्र प्रतिपादिताः । तथापि सामान्येन अन्तर्यामी ऋषिः । अनुष्टुप्छन्दः । परमात्मा देवता इति ज्ञेयम् ।