१२६ औी श्रीनिवातनलिकुन्त-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने विाधिकारे ‘अविज्ञातेषु सर्वेषां मन्त्राणान्तु पृथक् पृक् । ऋछिन्दोधिदेवेषु छन्दोऽनुष्टुबिति स्मरेत् ॥ अन्तर्यामी ऋषिः प्रोक्तः परमात्मा च देवता । इति सामान्यतः स्मृत्वा पूजयेयुरुपोत्तमम्' । इति । स्वशरीरगताधिारणार्थ मयि गृहामीत्यभिवादनमुक्तम्। चयनमधिकृत्य यजुवि श्रुयते । 'यदध्वर्युरात्मन्नमिगृहीत्वाऽि चिनुवाद्योऽस्य स्वोऽस्तिमपि यजमानाय चिनुयादमिं खलु वै पशवोऽनूपतिष्ठन्तेऽपकामुका अस्मात्पशव्यस्युर्मयि गृह्णाग्यग्रे अििमत्याहात्मन्नेव स्वम िदाधार नास्मात्पशवोऽपक्रामन्ती'ति । श्रौते च-'मयि गृहामि–“यो नो अमि' रिति द्वाभ्यां हृदयस्थमि स्वात्मनि गृहीते ' ति । कराविति । सूत्रान्तरेऽप्येवमेवोक्तम् 'मेध्यतासिद्धयर्थ समन्तकत्वेन हस्तावनेक्ति । आत्मानमेव पवयते ? इति । आरण्यपर्वणि च-*न चाशुचि नप्यनिर्निक्तपाणि नाब्रह्मविज्जुहुयान्नाविपश्चित् । बुभुक्षवः शुद्धिकामा हेि देवाः नाश्रद्धधानस्य हविर्जुषन्ति' । इति । उभयहस्तेन वामहस्तेन वा न होतव्यं यातुधाना गृहन्ति । वार्ता युक्ताहुतिमसुरा हस्तात् गृह्णन्ति' इति भगवच्छासे काश्यपीये प्रतिपादितत्वात् उभाभ्यामपि वामहस्तेन वा कर्तुमयुक्तत्वादुभयोः प्रक्षालनं किमर्थमिति चेत्-कर्मा न्तरेषु वामहस्तापेक्षाया विद्यमानत्वात् कराक्त्युिक्तम् । 'इदमापशिवा' इत्यपोऽभिमन्य 'अदितेऽनुमन्यख दक्षिणतो वेदिं परिमृजामीति दक्षिणवेदि नैऋयाद्यन्तं, 'अनुमतेऽनुमन्यख पश्चिमतो वेदिं परिमृजामीति तथा पश्चिमवेदि 'सरस्वतेऽनुमन्य खोत्तरतो वेदि परिमृजामीत्युत्तरवेदिं वः पव्याद्यन्तं 'देवसवितः प्रसु पुरस्ताद्वेदिं परिमृजामीनि पूर्ववेदिमाग्नेय.द्यन्तमङ्गुलीरास्तीर्य साधावेन पाणिना कूर्चेन वा परिमृज्य गायत्र्या वेदीः प्रेोक्षयति ॥ ६ ॥
पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति