पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः] १२७ स्वभावतः परिशुद्धानामपां विशेषतो देवसान्निध्यार्थमभिमन्त्रणमुच्यते । यद्वा । अन्वाधानानन्तरं श्रौते यथाऽभिमन्त्रणमेवमत्रापि । स्वाभिमुखीकरणद्वारा वेदिपरिशुद्धिरुच्यते अदितेऽनुमन्यस्वेत्यादिना -- - भृगुः-- * अदितेऽनुमन्यस्वेति कथं पूर्वमिदं भवेत् । स्वस्थामेरुन्मुखार्थाय कृतशाखेषु निश्चयः ॥ अदितेऽवमंस्था इति च होमे चैव हुते सति । अझेः स्वास्थ्यविधानाय कृतमन्ते विदुर्बुधाः । ' इति । दक्षिणवेदिमित्यादि । यत्रारभ्यते तत्र परिसमाप्तिः । 'त्रिः प्रैौक्षति व्यावृद्धि यज्ञः । अथो मेध्यत्वाय 'इति श्रुतिः । अत्र द्विवारमुक्तम् । वेदिरसीत्यत्रैकम् । ‘ब्रह्मसोमावृत्विजौ वरयित्वा अध्.र्युः 'ओं भूपते भुवनपते इति प्रत्येकं प्रेक्ष्य ताभ्यां 'अहं भूपतिः इत्युक्त 'ब्रह्मन्-सोम प्रोक्षिष्यामि' इत्यन्तं तथोक्त्वा पुनस्ताभ्यां ‘प्रेोक्ष' इत्युक्तस्तथा प्रोक्ष्यति ॥ ७ ॥ वासाधिकारेः- ऋत्विजौ वरयेत्पश्चात्पञ्च सप्त नवाथवा । साक्षतैः दर्भयुमैश्च हस्ते हस्ते प्रदापयेत् । । इति । वरणप्रकारः । 'देवदूता वा एते यदृत्विजः' इति श्रुतेः । ब्रक्षणे देवदूतत्वाभावात् देवदूताकारेण कथं वरणमिति चेत् । सत्यम् । देवा एव ऋत्विजो यदि स्युः तर्हि यजमानस्य न मनुष्यलोकः । यदि मानुषा न देवलोकः । अथोभयोः प्राप्त्यर्थं ब्रह्माद्याकारेण वरणम् । श्रूयते हि षडिंशब्राह्मणे

  • ते ऋत्विजः स्थ यजमानो देवा वा अन्ये ऋत्विजो मानुषा अन्ये ये देवा

यजन्ति देवलोकमेव स तैरवरुन्धे न मनुष्यलोकम् । अथ यं मानुषा यजन्ति मनुष्यलोकमेव स तैरवरुन्धे न देवलोकम् | अथ यमुभय याजयन्ति देवलोकं स तैरबरुन्धे मनुष्यलोकश्च । स एतान् देवानृत्विजो वृणीत अभिमें होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्जन्यो उद्भाते 'त्यादि । ननु-चन्द्रमसः कथ ऋझत्वम् - उच्यते ।