पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ सन्दधाति । अथ यदि सामतो रिष्येत् सुक्स्स्वाहेत्वाहवनीये जुहुयात् सान्नामेव तद्रसेन सान्नां वीर्येण साप्तां यज्ञस्य विरिटं सन्दधाति । तद्यथा लवणेन सुवर्ण सन्दध्यात् सुवर्णेन रजतै रजतेन त्रपु त्रपुणा सीसें सीसेन लोहं ल हेन दारु दारुणा चर्म । चर्मणैवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विष्टि सन्दधाति भेषजकृतो ह वा एष यज्ञ 'इति प्रायश्चित्तश्च तद्यथेत्यादिना दृष्टान्तमुखेन प्रतिपाद्य 'यत्रैववित् ब्रह्मा भवती' त्यारभ्य 'ब्रवैक ऋत्विक् कुरूनश्वानभिरक्षति । एवं विद्ध वै ब्रह्मा यज्ञ यजमानं सर्वाश्च ऋत्विजोऽभि रक्षति । तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानैवंविदं नानैवंविद 'मितेि । (४. १२) । अत एव ब्रह्मवरणम् । ननु-सूत्रान्तरेष्वनुक्त सोमवरणं किमर्थमिति चेत्-सत्यम् । 'सोमोऽ : स्माकं ब्राह्मणानां राजा ' 'तस्मात्सोमराजानो ब्राह्मणाः' इत्यादि श्रुत्यनुसारेण स्वाधिदेवतां पुरस्कृत्य कर्म कृतश्चत् तत्समृद्धं भवतीति । एवमाह वो4ायनः । 'विष्णुश्च ह वै सोमश्च ब्रह्मवाद्यमवदेतामहं ब्राह्मणानां प्रतिष्ठति विष्णुरब्रवीदहं प्रतिष्ठति सोभः तौ प्रजापतिं प्रश्मैतां सोऽब्रवीत् प्रजापतिश्छन्दांसि विष्णुमधिगच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीपूजिौ पूजयन्तै स्तुतौ स्तुन्वन्तै प्रियौ प्रियवन्ौ ब्रह्मण्यौ ब्रह्मवित्तमौ व प्रोष्ठातारै भवत इति । यन्मां ब्राह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत्तस्माद्विष्णुः यैज्ञो यज्ञो वै ब्राह्मणानां प्रतिष्ठति, विज्ञायते च ब्राह्मणो वै छन्दांसीत्येतस्मात् ब्राह्मणात् । यत्र मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहमिति सोमोऽब्रवीत्। तस्माद्राह्मणानां सोमो राजेति तस्माद्विज्ञायते वै च ब्राह्मण अष्टाविंशो नक्षत्राणां तत्तस्य क्चः पुष्यमिति तावुभौ ब्रह्मण्यौ ब्रह्मवित्तमौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं विद्वान् ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्धयै । इति । अतस्सोमवरण विष्ण्वावाहनचे.क्तम् । ब्रह्म त्क्लिक्षणमाह मनुः अभ्याधेयं पाकयज्ञमामिष्टोमादिकान् भखान् यः करोति वृतो यस्य स तस्यत्विगिहोच्यते ' ॥ इति ।