पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० श्री श्रीनिवासमैखिकृत-तात्पर्यचिन्तामणिसहितम् ऋविवरणं यजमानस्य कृत्यम् । ऋत्विजामभावे भृगुः । ऋविजामप्यभावे तु ऋत्विजौ ब्रह्मसोमयः । रतिमात्रयौ कूच न्यसेद्दक्षिणवामयोः । तत्राऽवाह्म समभ्यच्यै दद्याद्राह्मणभोजनम् । रलिस्संवृतमुष्टिस्यादतिः प्रसृताङ्गुलिः' । इति कात्यायन:- 'स्याद्दर्शपूर्णमासेष्टौ चतुर्णामृत्विजां क्रियाः । चत्वारश्चन्न लभ्यन्ते त्रयः कुर्युस्त्रयोऽपि वा । न सम्भवन्ति कुर्यातां द्वावेवेष्टि कथञ्चन । यदि द्वावपि न स्यातामेकनापि ममापयेत् ॥ यजमानः प्रयुञ्जीत तत्रानाज्ञातनिष्कृतिम् । इति ताभ्यामहमित्यादि न प्रकृतावूहो विद्यत इति सोमस्य यज्ञपतिरात्क्ज्यिं करिष्यामीति सोमोऽहं. मनुष्याणामित्यादिस्वनामसङ्कीर्तनमान्नमेव नान्यत् । 'ब्रह्मन् ' इत्यादि – ब्रह्मन् सोम प्रोक्षिप्यामीत्यन्तं यथा भवति तथा । अभि होत्रह, यामित्यादि– पात्रादाधावमादाय साक्षतं. 'पृथिव्याप' इति प्रेक्षणीपात्र मापूर्य । तथा – वक्ष्यमाणवत्, श्रौतवद्वा । 'वसूनां पवित्र 'मित्युद्गग्रे पवित्रे प्रक्षिप्य । दक्षिणे न पाणिनग्रमित्यादि-यद्वा श्रौतवत् उदगग्राभ्यां पवित्राभ्यां ‘देवो व 'इति त्रिरुपूय 'आपो देवी 'रित्यभिमन्त्र्य ब्रह्मन् सोम प्रोक्षिप्यामीति । अन्यथा अन्तशब्दतथाशब्दयोः वैयध्यैम् । [प्रथम प्रश्ने इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ नवमखण्डार्थविवरणं समाप्तम् ।