पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः] श्रीवैखानसगृह्यसूत्रम् यस्यै देवतायै विर्निरूप्यो तां देवतां मनसा ह वै ध्याय निर्वपेत् ।। ४ ।। यस्यै देवनायै इत्यादि । यां देवतामुद्दिश्य हविर्निरूप्यते तां देवतां ब्रह्मात्मादिशब्दवाच्यो नारायण एवेति ध्यायन्निर्वपेत् । 'एको ह वै नारायण आसी' िदत्याद्युपिनषप्रत्यभिज्ञापकत्वेन ह वै इति प्रसिद्धवन्निर्देशस्य सूत्रे प्रति पादितत्वात् । 'शरोऽङ्गारेऽग्नौ जुहुया' दित्युक्तत्वाच । यद्वा परमात्मनो नारायणस्याङ्गभावेन ध्यायन् । 'अङ्गान्यन्या देवता 'इति श्रुतेः । यद्वा अन्तर्यामित्वेन ध्यायन् । विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदत्वञ्च देवतानां न विद्यते । । इतेि मीमांसकमते देवतानां विग्रहाद्यभावात् चतुथ्र्यन्तश्शब्दो देवतेति शब्दा तिरिक्तदेवतानङ्गीकारात् मन्त्रार्थवादानां स्वार्थे तात्पर्याभावाच शब्दात् पृथक्त्वेन देवता कथं प्रतिपाद्यत इति चेत् । उच्यते । ‘यद्वै किञ्च मनुर वदत्तद्वेषज'मिति श्रुते । वेदाद्युपनिबन्धत्वात् प्राधान्यन्तु मनोः स्मृतम् । मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यते ? ॥ इति । बृहस्पति स्मरणात्-'यत्पूर्व मनुना प्रोक्तं धर्मशास्रमनुत्तमम् । नहि तत्समतिक्रम्य वचनं हितमात्मनः । । इत्यङ्गिरस्मरणाच प्रामाणत्वेनावगतमनुस्मृतौ प्रत्यक्षमनुमानश्च शास्त्रञ्च विविधागमम् । त्रयं सुविदितं ज्ञेयं धर्मसिद्धिमभीप्सते' ति स्मरणात्। महाँ इन्द्रो वज्रबाहुरिति । शास्रादिभिरस्तीत्यवगम्यते । यथोपरा गादिः । युगपत्कर्मसन्निधिश्च सौभरिप्रभृतिषु विद्यमानत्वदिन्द्रादिषु किंपुन न्यसिद्धम् । युगपदनेकशरीरपरिग्रहृध एकस्य कथं सम्भवतीति चेत्-ानद्वारे