पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्री श्रीनिवासभखित-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने त्युच्यते । मन्त्रार्थवादानां स्वार्थे तात्पर्य गारुडादिषु दृश्यते । अतस्तां देवता मित्याद्युक्तम् । यथा वास्य सुषुझा ज्योतिष्मती प्राणवती रेतोधा इत्येत आहुतिं गृहीत्वा रश्मयश्चतस्रः पृश्नैौ सन्दधीरन् सह वा शुद्धाऽमृतवहा चि ही दिव्या लोकपानीत्येताभिश्चन्द्रमसमाप्याययति असैो नु राजा सोन'आध्यायिनो मूलगामी वपायाम्यमृतोद्भारी सुरप्रियेत्येताभिरमृतेन तां देयतां तर्पयति ।। ५ ।। यथा ह वा अस्येति । आहुतीनां कलाद्वारा तत्तद्देवतामापणमुच्यते। सन्दधीरन् स्थापयन्ति ।

  • अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । । इति

पुनरपि कलाद्वारा चन्द्रस्याप्यायनमाह सह वेत्यारभ्य चन्द्रमसमाप्या यतीत्यन्तेन । सोमोत्पतै अग्नौ हुतश्च दत्तश्च सर्व सोमगतं भवेत्' इति। पुनरपि चन्द्रमसः कलाद्वारा सत्तद्देवताप्रीतिरुच्यते मूलगामीत्यादिना : कदा वा देवता तृप्तिरिति चेत्-उच्यते । 'अग्नौ हुतञ्च दत्तश्च सर्व सोमगतं भवे'दित्यारभ्य 'प्रथमां पिबते वहि'रेित्यादिना तत्ततिथिषु तत्तदेवताप्रीतिमुक्ता 'हुतममिषु यज्ञेषु पुनराप्यायते शी' त्यादिना पुनराप्यायनस्य प्रतिपादितत्वात् । 'सद्यो मनुष्याः, अर्धमासे देवाः, मासि पितरः संवत्सरे वनस्पतयः तस्मादहरहर्मनुष्या अशनमिच्छन्तेऽर्धमासे देवा इज्यन्ते मासि पिट्टभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति । इति श्रुतेः 'अमृतेन तां देवतां तर्पयती' ित सूत्रे प्रतिपादितत्वाच परपक्षे देवतातृप्तिः । पड़िशत्राःणे । 'अथैषा चन्द्रमसे क्षयवृद्धिर्भवति । यथा वै चन्द्रमाः क्षीयते च सदनुव्याख्यास्यामः पूर्व क्षे वै देव दीक्षन्तेऽपरपक्षे सोमं भक्षयन्ति तत्रैमानि त्रीणि पत्रायुधीयन्ते पृथिवी पात्रमन्तरिक्ष पात्रं द्यौः पन्नमिति । तं देवा दिव्येन पात्रेणादित्याः प्रथ ' पकलं पञ्चमीं भक्षयन्ति तेऽन्तरिक्षेण पत्रेण रुद्राः द्वीयं पश्कल पक्षमं भक्षयन्ति ते पृथिव्या पात्रेण वनस्पीयं पश्कलं पञ्चदशीं क्षियन्ति पोडशी कलाऽवशिष्यते षोडशकलो वै