पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्ड:] १४५ श्रीविष्णुपुराणे-'सूर्यरश्मिसुषुझा यः तर्पितस्तेन चन्द्रमाः । कृष्णपक्षे तु वै शश्वत्पीयते वै सुधामयः । ।

  • मनुस्स वर्तते धीमान् साम्प्रतं सप्तमेऽन्तरे ।

आदित्या सुरुद्राद्या देवास्तत्र महामुने' । इति मनुः । अनि दूतं वृणीमहे' 'अग्निर्यज्ञस्य हव्यवाट् ' ' अग्नेस्रो ज्यायसो भ्रातर आसन् । ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त' इत्यादि श्रुतिषु अम्यादिभिरिित श्रूयते । कलाद्वारेण कथमिति चेत्सत्यम्-श्रुतिमार्गानुसारेण सुषुम्नेत्यादिकमुक्तम् । किञ्च । आवाहितानामत्रैव भागग्रहणम् । 'उत्तिष्ठस्रोजसा सह पीत्वा शिप्रे अवेपयः' इति मन्त्रात् आवाहनरहितानामन्यादिभिनयनम् । यद्वा । ‘ब्राह्मणस्य ह वै देवा हविर्जुषन्ते स्वल्पमप्येकामाहुतिमपि तद्विरिमात्रं वर्धयन्ते इति श्रुत्या गिरिरूपेण वर्धितस्य हविषो देवताप्रपणे- अन्यादिभिः किञ्चित्, देवताभिः किञ्चत् अवशिष्ट कलाद्वारेण । यद्वा । सोमादमृतपानं कुर्वतां कलद्वारेण तृप्तिः । ‘तेऽपरपक्षे सोमं भक्षयन्तीत्यादिश्रुतेः। यद्वा ‘ते वा एते आहुती हुते उत्क्रामतस्तेऽन्तरिक्षमाविशतः तेऽन्तरिक्षमाहवनीयं कुर्वाते वायुमेव समिधे शुकामाहुतिं ते अन्तरिक्ष तर्पयतः, ते ततः उत्क्रामतः, ते ततः दिवमाविशत ते दिवमाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्राहुर्ति, ते दिवं तर्पयतस्ते तत आवते. इमामाविशत । इति वाजसनेयके द्विवचनान्तत्वेन प्रति पादनात् अमिहोत्राहुतिपरमित्यवगम्यते । अत्र आहुतिशब्दार्थः क इति चेत् देक्ताह्वानमिति ऋग्ब्राह्मणे श्रूयते। ‘आहूतयो वा नामैता यदाहुतयः। एताभिर्वे देवान् यजमानो इयति । तदाहुतीनामाहृतित्वम् । ऊतयः खलु वैता नाम याभिर्देवा यजमानस्य हवमायान्तीति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ चतुर्दशखण्डार्थविवरणं समाप्तम्।