पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदशः खण्डः सुवेणाज्यं स्रावयन् परिधी स्पृष्ट्वा वायव्यादाग्नेयान्तं प्रजापतये स्वाहेति, नैत्यादीशानान्तमिन्द्राय स्वाहेत्याघारौ जुहुयात् ॥ १ ॥ सुवेणाज्यं स्रावयक्रियादिना आघाराहुत्योहॉमप्रकार उच्यते। श्रुतिः आधारमाघारयति तिर इव वै सुवगों लोकः सुवर्गमेवास्मै लोकं प्ररोचयति, ऋजुमाघारयति ऋजुरिव हि प्राणः सन्नतमाघारयति प्राणानामन्नाद्यस्य सन्तत्या इति। 'यं कामयेत प्रमायुक्स्यादिति जिहं तस्याधारयेत् प्राणमेवास्माजिह्मन्न यति ताजक् प्रमीयते शिरो वा एतद्यज्ञस्य यदाघारः' इति । श्रौने च । वेदेनोप्यम्य सन्ततमृजु ज्याता प्राजापत्यमाघारमाघारयति । नमेिं प्रति खुचै धारयते समं प्राणैरित्येक' इति । 'तस्मान्मनमा प्रजापतये जुह्वति मन इव हेि प्रजापतिः प्रजापतेराप्या ' इति । चक्षुषी बुद्धा अग्रये स्वाहा सोमाय स्वाहेत्याज्यभागावुत्तर दक्षिणयोः जुहोति ॥ २ ॥ चक्षुषीत्यादि । श्रुतिः । 'चक्षुषी वा एते यज्ञस्य यदाज्यभागै, यदा ज्यभागौ यजति चक्षुषी वा एतद्यज्ञन्य प्रनिदधा.ि पूर्वाधे जुहोति तस्मात्पूर्वाधे चक्षुषी प्रबाहुब्जुहोति तस्मात्प्रबाहुक् चक्षुषी देवलोकं वा अग्निना यजमानोऽनु पश्यति पितृलोकं सोमेनोत्तराऽमये जुहोति दक्षिणार्थे सोमायैवमिव हीमौ लोकावनयोलॉकयोरनुयात्यै राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै तस्माद्राज्ञा मनुष्या विधृताः' इति । श्रौते । 'उत्तारार्धेऽमये दक्षिणावेंसोमाय तावन्तरेणेतरा आहुतीर्जुहोति' इति । श्रुत्यन्तरे। ‘यदा लेलायते ह्यस्सिमिद्धे हव्यवाहने तदाज्यभागाक्न्तरेणाहुती प्रतिपादये 'दिति । 'वज़ आज्यं' 'वन्न आज्यभागौ वज्रो वषट्कारः ित्रवृतमेव क् सम्भृत्य भ्रातृव्याय महति' इति ।