पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् . इति सर्वहोमानामादिरघारो विज्ञायते ॥ ९ ॥

  • या आधारवतीस्ता आयतनवती । रिति । प्रसङ्गादत्राग्निपरीक्षा

चोच्यते काश्यपीये । पौण्डरीकाग्निकुण्डोत्पत्तिमधिकृत्य श्रीकामं प्रत्युच्यते । |

  • पूर्ववदाघारं हुत्वा तत्राग्निमुपलक्षयेत् । विना यलेन वा दीप्यते शिखाभि

रुज्ज्वलद्भिस्सहितो वा भवेत् प्रदक्षिणं वा हृो वा गन्धं रूपं वा सुमनोहरं सोऽग्निस्सिद्धिकरः । विसृजेद्वा विस्फुलिङ्गान् दुर्गन्धो यदि वा न दीप्यतेऽपसव्यं ज्वलयसिद्धये। तस्मादेवं विदित्वा साधयेत् । दक्षिणनयनादिस्फुरणमुपलक्षयेत् । उद्वहनकाले यदाऽऽज्यगन्धो वातेि सद्यः हस्तप्राप्ता श्रीरिति वेदितव्य । मिति । [प्रथम प्रश्ने चत्वारि शृङ्गा इत्यग्निध्यानं सम्यक् समाचरेत् । वसन्तीं श्यामकौशेयं दुतकाञ्चनशोभिनीम् ॥ लक्ष्मीमिवापरां देवीं स्वाहां ध्यायेत्सुमन्त्रवित् । नवदूर्वादलश्यामां रक्तकौशेयवासिनीम् । सुखभोगामनासीनां स्वधामेवं विभावयेत् । अथवा यज्ञमूर्तेस्तु ध्यानं सम्यक् समाचरेत्। | ब्राह्ममासनमासीनं कुण्डमध्ये हुताशनम् । प्रत्यङ्मुखं रक्तवस्त्रं तरुणाऽदित्यसन्निभम् । स्वाहास्वधाभ्यामासीनं सर्वदेवात्मकं परम् । एकं वै हृदयं तस्य त्रयः पादाः शिरो द्वयम् । चतुश्श्रृङ्गं चतुर्णेत्रं सप्तजिहं द्विनासिकम् । दक्षिणस्यां चतस्रस्तु जिह्वात्रिस्रस्तथोत्तरे ।। सप्तहस्तं स्मरन्ननि सर्वाभरणभूषितम् । कृष्णाजिनोत्तरामङ्गं मौञ्जीदण्डसमन्वितम् ॥ स्रकस्रवाक्षस्रजश्शक्ति दधन्तं दक्षिणैः करैः । तोमरं व्यजनधाज्यपात्रं वै वामबाहुभिः ॥