पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः खण्डः] किञ्च – भूः - बिम्बश्च यज्ञमूर्तेस्तु कुर्यादेवमिति श्रुतिः । हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥ अतिरिक्ता बहुरूपा जिहास्सप्त प्रकीर्तिताः । ईशानेन्द्रानिनिक्रतिवरुणानिलमध्यगाः । आधारान्ते सुहोतव्यं सप्तजिह्वासु वैष्णवम् । हिरण्यायां समिद्धोमः कनकायां यजेत् घृतम् ॥ सर्षपांश्चैव रक्तायां कृष्णायां लाजमेव च । सुप्रभायान्तु देवं तं ध्यात्वाऽऽपूपं जुहोति च । होतव्यमतिरक्तायां तिलं सर्वामरप्रियम् । अन्यानि बहुरूपायां जुहुयान्मनसा स्मरन् । समिद्धोमे स्थितो वदिशेते च स घृताहुतौ । आसीनश्धरुहोमेषु तिलसर्षपसत्फुषु । अन्यथाऽग्नौ हुतं यत्तत्सर्वं भवति निष्फलम् । चतुरङ्गुलिसंस्रावा ह्यविच्छिन्ना घृताहुतिः । अक्षुष्ठपर्वमात्रा तु गृहीताऽन्नाहुतिस्मृता । अन्नमक्षप्रमाण स्यालाजं मुष्टिमितं भवेत् । तिलसर्षपसतूनां शुक्तिमात्राऽऽडुतिर्भवेत्' । इति । 'साशुष्ठयाऽनामिकया समालिङ्गय सुवं तथा । प्रदेशिनीमध्यमे च सुवस्याधः प्रसार्य च । वेदाङ्गुलप्रमाणञ्च यजेदाज्याहुतिं बुधः । अकुष्ठनामिकामध्यैः समिधे जुहुयाचरु'मिित । 'होमद्रव्याधिपान् वक्ष्ये भूमेिं मृत्सिकतासु च । स्पण्डिलं सोमदेवत्यं कुण्डवेद्यां प्रजापतिः । १५१