पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षडशः खण्डः ०५ अथ सामान्यतः क्रियाया होममन्त्राः ।। १ ।। 'धाता ददातु नो रयि' 'धाता प्रजाया' 'धाता ददातु नो रयि प्राची' 'धाता ददातु दाशुपे' 'अनुनोऽद्यानुमतिः' 'अन्विदनुमते त्वम्' 'आमाघाजस्य ' 'समाववर्ति' 'अनुमन्यतां ' 'यस्यामिदं 'राकामहं ' 'यास्ते राके' 'सिनीवालि' 'या सुपाणिः' 'कुहूमई 'कुहूर्देवानामिति' धातादि षोडश ॥ २ ॥ अथ-आघारानन्तरं सामान्यतः क्रियायाः निषेकादिक्रियाया: होम मन्त्राः । क्रियाया इति जात्येकवचनम् । ऋगादिषु पादभेदस्य विद्यमानत्वात् यजुइशाखानुसारेण कर्तव्यत्वज्ञापनार्थं मन्त्राणामादिग्रहणं क्रियते । व्रतादिषु धातादिपूर्वमित्युक्तः मन्त्रचतुष्टयमेवेत्याशङ्कय तद्यावृत्त्यर्थं षोडशेत्युक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ षोडशखण्डार्थविवरणं समाप्तम् ।