पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तदश खण्डः ‘इमं मे वरुण? 'तत्वायामि' 'त्वं नो अग्ने' 'स त्वं नो अग्ने । 'त्वमग्ने अयास्यास'ि पञ्च वारुणम् ॥ १ ॥

ित

तृतीयादिषु मन्त्रेष्वनिशब्दस्य विद्यमानत्वात् मन्त्रलिङ्गवशादाग्नेयमपि भवतीत्याशङ्कय देवस्य वरुणस्येति क्रुणस्य प्राधान्यावगमात् पञ्चवारुणमित्युक्तम् । 'प्रजापते न त्वत् ' 'प्रजापतिर्जयान् ' इत्युपांशुयाजे प्राजापत्यं ॥ २ ॥ चित्तश्च चित्तिश्चाकूतश्चाकूतिश्च विज्ञातश्च विज्ञानश्च मनश्च शकरीश्च दर्शश्च पूर्णमासश्च बृहच रथन्तरञ्च स्वाहे' ति चित्तादि द्वादश जयाः ॥ ३ ॥ अग्रिभूतानामधिपतिस्समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्याः वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्बह्मणो मित्र स्सत्यानां वरुणोऽपां समुद्रः स्रोत्यानामन्नसाम्राज्यानामधिपति तन्मावतु सोम ओषधीना सविता प्रसवान रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपयतयस्ते माऽवन्तु पितरः पिता महाः परेऽवर'इत्यष्टादशानिर्भूतादयोऽम्यातानः ॥ ४ ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासस्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणौ सप्तदशखण्डार्थविवरणं समाप्तम् ।