पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ श्री श्रीनिबासमखिकृत-तात्पर्यचिन्तामणिसहितम् प्रायच्छन् तानजुहोत्तो वै देवा असुरानजयन् यदजयन् तजयानां जयत्व स्पर्धमानेनैते होतव्या जयत्येव तां पृतना ? मिति । तथा 'अभ्यातानैरेव भ्रातृव्यानभ्यातनुते ' इति तथा 'राष्ट्रकामायां होतव्या । इत्यारभ्य राष्ट्र मजा राष्ट्र पशवो राष्ट्र ' मित्यादिभिः 'गन्धर्वाप्सरसां स्तोमः ।

  • प्रजाकामो यजेतेत्यादिभिः श्रतिभि ? श्रव अतिशयफलप्रदत्वस्यैतेषां श्रवणा

मूलहोमः इति संज्ञा मन्त्राणामेषां अर्थवती कृता । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ अष्टादशखण्डार्थविवरणं [प्रथम प्रश्ने समाप्तम् ।