पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकोनविंशः खण्डः अथान्ते होममन्त्राः ॥ १ ॥ 'यदस्य-अग्रये स्विष्टकृते-अग्रये-अग्रयेऽन्नादाय-अन्नये ऽन्नपतये-प्रजापतय-इन्द्राय-विधेभ्यो देवेभ्यः-सर्वाम्यो देवताभ्यः सर्वत्र-अग्ये स्विष्टकृते-वास्तुपत इति खिष्टाकाराः ॥ २ ॥ अथ सामान्यहोमानन्तरं अन्ते कर्मान्ते साद्गुण्थार्थ कर्तव्या होममन्त्र उच्यन्ते । यदस्येत्यारभ्य वास्तुपत इत्यन्तं द्वादश स्विष्टकृतः । प्रतिष्ठसिद्धार्थ स्विष्टकृद्धोम उक्तः । श्रुतिः । ‘स्विष्टकृतं जुहोति । यज्ञस्य प्रतिष्ठिया इति। श्रुत्यन्तरे । ‘स्विष्टकृतं यजति । प्रतिष्ठा वै स्विष्टकृत् । प्रतिष्ठायामेव तद्यज्ञ मन्ततः प्रतिष्ठापयति । इति । 'यन्म आत्मनः-पुनरन्निश्चक्षुरिति' मिन्दाहुती ॥ ३ ॥ द्वे मिन्दाहुती । इष्टभ्य इत्यादि दशान्ते व्याहृतिरिति ऋद्धिः ।। ४ ।। श्रौते च ब्रह्मप्रतिष्ठत्येषोऽनुवाक इति() अतिरिक्तमन्त्रकल्पनादोषप्रसङ्गात् यत इन्द्रः स्वस्तिदा विशस्पतिरिति मन्त्रद्वयेन सह दशान्ते व्याहृतिः । 'आश्रावितं-ब्रह्म-यदकर्मेति कृतान्तम्। ‘यत्प्रमत्तः-'मनी ज्योतिः’-‘अयाश्चाग्ने-' 'यदसिन्'-'स्वस्तिनो' 'यत इन्द्र' इति विच्छिन्नम् ।। ५ ।। कृताहुतिरेतु देवांस्वाहेत्यत्राहुतिः। आहृतिद्वयशङ्काव्यावृत्यर्थे कृतान् मित्युक्तम् । विच्छिन्नमिति । छिन्नांशस्य सन्धिरित्यर्थः । तास्सन्दधामि इति मन्त्रलिंगात् । 'एधोऽस्येषिीमहेि खाहा बेल्वं 'समिदसि तेजोऽसि तेजोमयि धेहेि खाहा पालाशं 'यमस्य धीमहि मृत्योर्मे पाहि खाहा नैयग्रोधं