पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशः खण्ड:] श्रीवैखानसगृह्यसूत्रम् यदतिकरोति यन्नाति करोति तदेव तैः प्रीणाति । इति श्रुतिः । समिष्टयजुरिव लुवाज्यस्थानीयेनाज्यपात्रेण होम उच्यते । इन्द्रशब्देनात्र परमात्मा उच्यते । 'अवैि देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता 'इति ब्राह्मणम् । 'स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्वरा' डिति श्रुतिः । यजुषि च ।

  • अमिरवमो देवतानां विष्णुः परमो यदाझावैष्णवमेकादशकपालं निर्वपति

देवता एवोभयतः परिगृह्य यजमानोऽवरुन्धे ' इति । इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ एकोनविंशखण्डार्थविवरणं १५९ समाप्तम् ।