पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विंशः खण्डः तर्पयति ॥ ३ ॥ १४४ तत्पावणाधावभादाय ध्रुवेण अन्तरित ‘मग्रिस्तृप्यत्वि'त्युपामि वेदिस्तृप्यत्पिति' वेद्यां ‘द्यौस्तृप्यत्वित्याकाशे ' 'पृथिवी तृप्यत्विति भूमौ ' 'ब्रह्माद्यास्तृप्यन्तामिति दक्षिणस्यां नर्पयति ॥ १ ॥ तत्पात्रेण – आज्यपात्रेण आधावं जलं खुवेणादाय अन्तरितं झुवान्तर्गतम् । उपाग् िअसिमीपे। वेदिस्तृप्यत्विति पश्चिमवेद्याम्। दैवेनेति दैक्तीर्थेन । दक्षिणस्यां पितृस्थाने । तर्पयति । श्रुतिः । 'यदनायतने नियेत् । अनायतनस्या 'दिति। प्रणीतायां दक्षिणस्यां दैवेनापो गृहीत्वा 'ओषधिवनस्पति गन्धर्वाप्सरसचैव तृप्यन्ता'मित्युत्तरस्यां वेद्यां तर्पयति ॥ २ ॥ तथोत्तरस्यां प्रणीतायां सापसव्यमपो गृहीत्वा 'मे दक्षिणतः पितरः पितामहाः प्रपितामहाश्चाक्षय्यमस्तु तृप्यन्ता 'मिति दक्षिणस्यां प्रामावीरित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा दक्षिणादिप्रणिध्यो रुपान्ताङ्गुष्ठानामिकाभिः पवित्रमक्षतं गृहीत्वा ‘पवित्रमसि ‘पूर्णमसि ' सदसि 'सर्वमसी' ति पर्यायतो जुहोति ॥ ४ ॥ चतुर्भिः प्रवाहणं कृत्वेति । ननु-मन्त्रचतुष्टयेऽपि प्रासा वीरित्यन्ते अनुक्तत्वात् कथमिदमुपपद्यत -इति चेत् सत्यम् । चतुर्भिर्मन्त्रैरेकं परिषेचनम् । मन्त्रान्ते उक्तत्वात् । सामान्याभिप्रायेण प्रासावीरित्यन्तैश्चतुर्भि रित्युक्तम् । यद्वा-अदिते-वमंस्था इत्यादिषु देवतामेदस्य विद्यमानत्वात् मन्त्रान्तरपरिषेचनान्तरशङ्काव्यावृत्यर्थमेकमेवेति पयितुं मासावीरित्यन्तै रित्युक्तम् । यद्वा – ' अदितेऽन्क्मंस्था इति हो चैव हुते सति। अग्नेः स्वास्थ्यविधानाय कृतमन्ते विदुर्बुधा' इत्यमिस्सर्वतोमुख इत्युक्तत्वाचतुर्भि परिषेचनमुक्तम् । यद्वा-पूजायां बहुवचनमिति वा । प्रवाहणं परिषेचनम् । क्रियाधिकारे । 'मिन्दाहुतिश्च विच्छिन्न हुवः कृत्वा प्रवाहण' मिति ।