पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्डः ॥ खानसमृह्यसूत्रम् अत्र नृसिंहाििचता अनुगृहीतसूत्रभाप्यादुद्धता विषयाः प्रकरणानुगुण्येन प्रथममझे प्रथमः पटल: (अथ प्रथमः खण्डः) अष्टादशसंस्काराः । तत्तत्कालकर्तव्या नित्याश्च भवन्ति । यज्ञाश्च द्वाविशत् । च शब्दोऽवधारणे -द्वाविंशत्संख्याका एवेति-इतरे एतद्विकारा एवेति च । ब्रह्मयज्ञः ब्रह्मणा वेदेन देवानां यजनं प्रीणनं ब्रह्मयज्ञः । अयं प्रात हॉमत्पूर्व पश्चाद्वा ब्रह्मचरिप्रभृतििभः कर्तव्यः, न रायाम् । वैश्वदेवकाले पक्वेनान्नादिना देवानां यजनं होमो देवयज्ञः । तथा बलिदानेन वा 'पितृभ्य स्वधा नम' इति जलदानेन वा पितृणां यजनं प्रीणनं पितृयज्ञः । तथा बलेिना भूतानां यजनं प्रीणनं भूतयज्ञः । वैश्वदेवकाले स्वगृहमागतानामतिथीनां यजनं यथाशक्त्यन्नादिना प्रीणनं मनुष्यज्ञः। एते मध्याहे तत्रासंभवे रात्र्यां पूर्वयामे वा गृहस्थादिभिः कार्याः । ऐषां पञ्चानां महायज्ञानामहरहः कर्तव्यानामनुष्ठानं करणमेको यज्ञ । 'एको यज्ञ' इति प्रायश्चित्ते वक्ष्यते । स्थालीपकमित्यादि । स्थलन्ति तण्डुलादयोऽस्यामिति स्थाली ' तस्यां प्रतिपर्व पच्यते हविरिति स्थाली पाकः । नवानां व्रीह्यादीनामग्रेण प्रथमपाकेन अयनं देवेभ्यः होमादिना प्रापण माग्रयणम् । आकारव्यत्ययः छान्दसः । पितूनुद्दिश्य अष्टौ पिंडा निर्वाप्यन्ते अस्यामित्यष्टका । पिण्डैः साध्यः पितृणां यागः पिंडपितृयज्ञः । मासे मासे अपरपक्षे पितृणां होमेनान्नादिना श्रद्धया तर्पणं मासिश्राद्धः । सस्यवृद्धयर्थ चैत्र्यां पौर्णमास्यां पाकेन विप्वादीनां यजनं चैवी । पशुवृद्धार्थ आश्वयुज्यां पौर्णमास्यां पाकेन भवादीनां यागः आश्वयुजी। इत्येते सप्त तत्तत्काले कर्तव्याः नित्याः पाकयज्ञा भवन्ति । पाकेन अन्नादिना देवेभ्यः कर्तव्या यज्ञाः पाकयज्ञाः । संभरेप्वग्नीनां विधानेन निधानमभ्याधेयम् । यजमानं नरकात् त्रायन्ते अयोऽ. स्मादित्यमिहोत्रम्, पयःप्रभृतिभिः द्रव्यैः हूयत इति वा अमिहोत्रम् । दृश्यत इति दर्शः अमावास्या । पूर्णो मासोऽनेनेति पूर्णमासः, तयोः कर्तव्यौ यागौ दर्शपूर्णमासौ । आग्रयणार्थमिष्टिर्यागः आग्रयणेष्टिः । चतसृषु चतसृषु मासेषु कर्तव्यः चातुर्मास्यः । सोमाद्वहिर्भवतीति निरूढः, पशुः छागदिः बद्धयतेऽमि