पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने िित पशुबन्धः, स चायं निरूढशुक्म्धः । सुत्रामा इन्द्रः प्रधानो देवता अस्या मिति सौत्रामणी । एते यज्ञा यथाकालविहिता नित्याश्च भवन्ति । हविर्भिः पयो दध्यामिक्षावाजिनवसात्वङांसलोहितपशुरसतण्डुलपिष्टफलीकरणपुरोडाशचरुयवागु पृथुकलाजधानसुरामधुसोमसमिच्छकलबर्हि:करीरादिभिः यथार्हः कर्तव्या यागा हविर्यज्ञाः । अमिष्टोम इत्यादि । तृतीयसवने अमीनां स्तोमः स्तुतिर्भव तीत्यमिष्टोमः, यद्वा - अमिष्टोमास्येन साझा संस्तुतत्वादमिष्टोमः । 'अमिष्टोम साम भवती 'ति श्रुतिः । तमेकेन द्वाभ्यां वा स्तोत्राभ्यामतिक्रमत इत्यमि ष्टोमः । तृतीयस्रवने उक्थ्यग्रहो गृह्यतेऽत्रत्युक्थ्यः उक्थ्याख्येन साम्रा संस्तुत त्वादुक्थ्यः । तृतीयसवने षोडशीग्रहोत्र गृह्यते इति, षोडशस्तोत्राण्यस्यास्सन्तीति वा षोडर्शी। वाजमन्ने सुरा पेयं सुराद्रव्यमस्मिन्निति वाजपेयः । रात्रिमतिक्रम्य क्र्तन इत्यतिरात्रः । अपेतः सर्वकामेभ्यः सर्वान् कामानयं यच्छतीति वा अप्ती यमः, अप्तोर्यामास्येन साम्रा संतत्वाद्वा अप्तोर्यामः । सोमेन सोमलता रसेन साध्या यागा: सोमयज्ञाः यथाकालकर्तव्या नित्याश्च भवन्ति । तत्र प्रथम मन्निष्टोमोऽतिरात्रो वा यष्टव्यः । । अमिष्टोमः प्रथमो यज्ञोऽतिरात्रमेके समाम नन्ती' त्यस्तंबवचनात् । अन्ये यागः सति विभवे क्रमेण कर्तव्याः । नियमेनामिष्टोम, कर्तव्य । 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायते' इति श्रुते । इमे संस्काराश्चत्वारिंशत् निषेकाद्यप्तोर्यामान्तः । ननु-निषेकमिति न पृथक् संस्कारः - 'ऋौ संगमनं निषेकमित्याहुः' इति सूत्रादिति चेत् . सत्यम् । ऋतौ संगमनं निषेकमित्याहुरेके न वय'मिति सूत्रतात्पर्यम् । इदमत्र गमकम् । तदेवं त्रिरात्रं हविष्याशिनी । इति निषेकतन्त्रप्रकारो वक्ष्यते । तस्य पृथक्त गणन एव संस्काराणामष्टादशसंग्यात्वोपपतिः । न च पारायणव्रतबन्धविसर्ग द्विधा कुर्म इति वाच्यम्, नथा अनुपादानात् । वर्षवर्धनं मध्ये पठिनं संस्का रत्वेन गृहीतु न शक्यते । दण्डके अपठितत्वात् । 'निषेकादाजातक) । िदित पुनर्वचनाञ्च निषेकः पृथक् संस्कार एव । निषेकादित्यादि । आजातकादित्यत्र आङ्मर्यादायाम् । निषेकादयः पटक्षेत्रसंस्काराः तत्कालविहितः । निषेकादा रभ्य आजातकात् संस्कृतायां असमानर्पिगोत्रजातायां ब्राह्मण्यां तथाविधात्।