पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंश खण्डः] श्रीबैखानसगृह्यसूत्रम् ब्राह्मणात् जातमात्रः पुत्रो 'मात्र । नामा भवति । मीयते आचारः अल्पीयतेऽ स्येति मात्रः । अस्य शैौचादिविचारोऽपि नास्ति । रजस्वलादिस्पेशेऽपि प्रोक्षण मेव । 'उपनीत' इति । जातकदि चैलकान्तैः यथाकालविहितैः षड़भि संस्करैः संस्कृतः पश्चात् कृतोपनयनः सावित्र्यध्ययनात् ब्राह्मण । 'वेदम धीत्ये' ति । कृतवेदोपाकर्मा क्रमेण प्राजापत्यादि वेदव्रतान्याचरन् सांगं वेदम धीत्य समावृतः कृतविवाहः शालीनवृति: गृहस्थो भवति । पणिग्रहणान्तै संस्कृतः पाक्यशैरपि क्रमेण यजन् ब्राह्मणः श्रोत्रियः श्रुतवृत्तसम्पन्नो भवति । स्वाध्यायो वेदः तस्मिन् रतः श्रद्धालुः अग्नीनाधाय हवियैः यजन् यायावरे नाम गृही ब्राह्मणः । अनूचानः अभ्रष्टाचारः सांगवेदाध्ययनसम्पन्नो वा घोरा चारिको नाम गृही भ्रूणो भवति । 'श्रियन्ते यज्ञा अने' ति श्रूणः । सोम याजी । चत्वारिंशनाः उतैः संस्करैः तथा नियमयमाभ्यां ज्ञानादि सत्यादि दशसंख्याभ्यां वक्ष्यमाणलक्षणाभ्याञ्च अन्वितो ऋषिकल्पो भवति, ऋषितुल्यो भवति । तथाह धेर्म सूत्रकारः – 'स्रानशौचस्वाध्यायतपोदानेज्योपवासो पस्थनिग्रहवतमौनानीति नियमान् दशैतान् - सत्यानृशंस्यार्जवक्षमाद्मप्रीतिप्रसादः मार्दवाहिंसा माधुर्याणीति यमान् दशामूश्च समाचरति ? इति । सांगेति । चनुभिर्वेदैः तपसा दुःस्वसहिष्णुत्वेन पूर्वोक्तलक्षणैश्च युक्तः ऋषिः । ऋच्छति तपसा मोक्षं गच्छतीति ऋषि । अनेन वानप्रस्थो लक्ष्यते । नारायण एव परमुत्कृष्टमयनं प्राप्यस्थानं यस्य स नारायणपरायणः । निर्द्धन्द्वः पूर्वोक्तसमस्त लक्षणयुक्तश्च मुनिर्भवति । अनेन यतिनो लक्ष्यन्ते । विज्ञायते-श्रुतिष्वगम्यते । इनि प्रथमः पटलः । (इति प्रथमः खण्डः) । (अथ िद्वतीयः खण्डः)। अथ स्रानविधिरुच्यते। मातरुत्थाय ग्रामाद्वहिर्गत्वा धर्मे वक्ष्यमाणक्त् दिवासंध्ययोरुदछुखो रात्रौ दक्षिणामुखः निवीती दक्षिणकर्णे यज्ञोप वीतमासज्योत्कुटिकमासीनो मूत्रपुरीौ तृणान्तरिते स्थलेविसृज्य करेण वामेन शिश्नं गृहीत्वोत्थाय गोविामिवाय्वर्कतारेन्दूनपश्यन् दक्षिणेन पाणिना शैौचार्थ मृद्वहण्या दोषरहितां मृदं संगृह्म जलपार्थे तथाऽऽसीनो ब्रह्मचारी गृहस्थो वा शिश्ने द्विः हस्तयोश्च द्वि:ि यथोक्तं शौचं कुर्यात् । वनस्थस्य भिक्षींश्च एतद्द्वगुणं