पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावखानसगृह्यसूत्रम् १७१ पूर्वं नित्यं प्रतिदिनमनध्यायदिनेषु च । 'इवे वो जेंवा' इत्यादि यथाकामं यावदध्ययनं कर्तुमिटं तावत् यावदनुवाकान्वा । ब्रह्मयज्ञप्रक्चरश्च । संकल्प्य 'विद्युद 'सीत्यप उपस्पृश्य 'ऋग्वेदः प्रीणा' त्वित्यादिभिराचम्य 'यदपा मिति जलमभिमन्त्र्य 'अमृतो स्तरणम' शीत्यात्मानं परिषिच्य ‘आद्यमभिगृद्धा मीति जलं गृहीत्वा 'अर्वाचमिन्द्र 'मित्युट्रय 'ब्रह्म सन्धत्त'मित्यादि ‘इन्द्राय सुतमाजुहोमि स्वाहा'इत्यन्तमुक्ता तञ्जलं प्राश्य ‘भू'रत्यादि जप्त्वा ‘वृष्टिरसि इत्यप उपस्पृश्य सावित्रीपूर्व ‘मिषेत्वजे । त्वादि जपेत् । इति केचिदाचक्षिरे । नित्यमिदम् । नित्यब्रह्मयज्ञान्ते का० तिर्पणं कार्यम् । अथ नैमित्तिकब्रह्मयज्ञ माह 'ऋतश्च । त्यादिना । प्रायश्चित्तदिनिमितसंबन्धि नैमित्तिकम् । 'ऋतश्च । इत्यादि द्वादशसूक्तानामध्ययनं कुर्यात् । स्वाध्यायोऽयमुपनयनप्रभृति द्विजैः कर्तव्यः । सैौरीभिः –सूर्यसंबन्धिनीभिः । द्वादशनमस्काराद्युपस्थानमुच्यते । (इति चतुर्थः खण्ड ) । अथ पञ्चमः खण्डः । अशक्तविषयं रुानमाह ‘अशक्त' इति। अशक्तः रोगादिभिः। वशब्दः शक्यं प्रकारं िनयमयति। पूर्ववदाचमनादीनि । आदिशब्देन सन्ध्योपासनसावित्रीजपतर्पणब्रह्मयज्ञादित्योपस्थाननित्यहोमादयो गृह्यन्ते । दिव ३छ्युः -स्वर्गद्वलितैः । आधावं पवित्र जलम् । इदमपागुह्य नाम । 'एतद्वा अपां नामधेयं गुह्यम् । यदाधावः' इति श्रुतिः । तैराधावैः । तदभावे सातपैवैर्वा सेचनमाप्तावनं दिव्यं शानं भवति । गवां पादोद्वतैः वायुना नीतैः• रजोभिः स्पर्शनं वायव्यं स्रानम् । गोसावित्र्या गायत्र्या वा शरीरोदूलनं वायव्यमिति केचित् । अमिहोत्राद्युतेन भस्मना आग्नेयेन मन्त्रेण सर्वागमापदमस्तकमालेपनः माग्नेयं स्रानम् । गुर्वनुज्ञालब्धेन ' आप हिष्ठा' इति मन्त्रेण आग्नेयेन तीर्थेनाभ्युक्षणं त्रिः कृत्वः प्रेक्षण मान्त्रं क्षानम् । आग्नेयादितीर्थलक्षणमाह दक्षिणपणेरित्यादि । तीर्थलक्षणोक्तौ प्रयोजनमाह दैवेनेत्यादि । इति तृतीयः पटलः । (इति पञ्चमः खण्डः) अथ चतुर्थः पटलः । (अश षष्ठः खण्डः) । अथ पुण्याहम् । इदं कर्मनाम । पञ्चसंख्याताऽहीनाः सदस्या भवन्ति । तान् स्वगृहमाहूया