पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ श्रौ श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्नः गतानभिपूजयति - गन्धपुष्पाक्षतैरर्चयति । आचार्यः – निषेकादिकृत् । करकमुदपात्रमद्भिापूर्य कूर्चेन वक्ष्यमाणलक्षणेन पाणिना वाऽभिमन्त्र्य संस्पृश्य पुष्पादिभिः पुष्पगन्धाक्षतादिभिः सर्वतीर्थजलमिति तजलं स्मृत्वा आवाद्य करकस्यान्तः बाहे च परितोऽभ्यच्यै । प्रतिवाचकान् प्राश्रुखानुदश्रुखान्वा स्थापयित्वा प्राछापखं यजमानमासयित्वा आचार्य उदघुख आसीनः कर्म कारयति । सर्वत्र कर्मस्वयमेवासनविधिः । यद्यद्धि मानसं वाचोचार्य संकल्पपूर्वमेव कर्म कर्तव्यमिति यावत् । संकल्पकर्ता यजमानः । सर्वकर्मस्वयं विधिः समान । 'करिष्यामि, करिष्ये ' इति वा संकल्पस्वरूपम् । ‘कुरुष्व ? इति प्रति वाचका वदेयुः । स्थानं पुण्याहप्रदेशः । प्रजापतिः प्रियतामिति यजमानेनोक्त प्रति वाचकः अनुवदन्ति । ‘शाम्यन्त्वि' त्यादि । त्रिरपः साक्यति । करकादिशुद्धपात्रं मृन्मयं वा अमिस्रावजलधारणार्थ पुरतः संस्थाप्य तस्मिन् कुशाक्षतगन्धाश्वत्थ पलवादीन् विन्यस्य करकमुद्धृत्य 'शाभ्यन्तु घोराणि' इति मन्त्रावृत्या उत्तरान्तं यथा स्यात् तथा पात्राहिभूम्याः त्रिःकृत्वः अपः स्रावयति । तथाऽन्ते

  • शुभानि वर्धन्ता 'मिति पात्रे अपस्स्रावयति । अग्रे प्रथमं दैविके अतो देवाद्य

मन्त्राः, तथा सूतके जातकाशौचनिवृत्त्यर्थे कर्मणि प्रथमं 'सन्वा सिञ्चामि इति । तथा प्रेतके मृताशौचनिवृत्यर्थे कर्मणि 'शुची वो हव्ये' ति प्रथमं पठितव्यम् । अन्ये मन्त्राः पश्चात् पठितव्या । 'द्रविणोदा' इत्याद्या ऋचः सर्वे प्रतिवाचकाः सदस्या: यजमानेन सह वदेयुः । तत्तन्मन्त्रान्ते यजमानस्य शिरस्यक्षतन् निक्षिपन्तो वदेयुः । यजमानः करकं धारयन्नपः प्रतिमन्त्रं पात्रे स्रावयति (इति षष्ठः खण्डः) । अथ सप्तमः खण्डः । देवा ऋषयः इत्यदि । सर्वाद्या: यिन्तामन्ताः।

  • सर्वे देवाः भियन्ता' मित्यादि। यजमानेनोक्तं यथावत् प्रतिवदेयुः । एवं सर्वत्र ।

पुण्याहमस्त्विति यजमानेनोक्त प्रतिवाचका पुण्याहमस्त्विति प्रतिब्रूयुः । तथा मन्त्रलिंगात् । ‘शिवा ऋतक्स्सन्वि'त्यादौ तथैव प्रतिक्चनम् । वचनसाम्येन । यजमानस्येत्यादि । अयं प्रयोगः । 'आश्विनाय भारद्वाजाय यज्ञदत्तसुताय आत्रेयी नन्दनाय देवदत्तशर्मणे मद्यमन् िकर्मणि ओं पुण्याह भवन्तो हुक्तु' इति