पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम: प्रश्न :] १७३ यजमानस्याशासनम् । एव स्वस्त ऋद्धिमिति च । यजमान एवं चतुथ्र्या षष्ठया वा स्वनाम वदति । तुभ्यं तवेति वा विपरिणमय्य तथैव प्रतिवाचका वदेयुः । पुण्याहफलमाह पुण्याहे कृत इति । यथाशक्ति शक्तिमनतिक्रम्य त्वमग्रे इत्यादि । त्वमग्ने यज्ञानां होता ? इति मन्त्रान्ते 'अझये हिरण्य / मित्यादि यथालिंग मन्त्रेणाददीरन् - प्रतिगृह्णीयुः । यत्रेति । श्रौते स्मातें वा कर्मणि-सर्वत्र दक्षिणाया दानं समर्पणमादानं प्रतिग्रहश्च दक्षिणादानादाने भवतः तत्र-तत्रैवमेव स्यात् भवेत् । इति चतुर्थः पटलः । (इति सप्तम खण्डः) । अथ पञ्चमः पटलः । ( अथ अष्टमः स्वण्डः) अम्यायतनं अमिस्थानम् । स्थण्डिलं सिकताभिः कार्यम् । सिकताभावे आपस्तंबादिमतेन भूम्यामेवा मिप्रतिष्ठापनमिष्टम् ! परिष्कृतभूमेः स्थण्डिलत्वव्यवहाराच । दर्भा उक्त लक्षणाः । कुशकाशादयं वा । यद्वा बोधायनादीनां मतेन स्थण्डिले बर्हिष एव भवनि । यथा स्थण्डिलस्य परितरणबर्हिरायतत्वम् । परिणाहः स्थौल्यम् । क्रणः लतादिसंघर्षजातं किणं जन्तुकोटरादिजन्यं वा, वकमनृजुता ताभ्यां हीनाः व्रणवक्रहीनाः परिधयः । पालशाः खादिरा आश्वत्थाः अन्येऽपि यज्ञवृक्षीया भवन्ति । प्रथितं दक्षिणावर्तग्रन्थियुतम् । परिस्तरणादीन् सर्वानेकीकृत्य पुनर्बश्वानि । तत्प्रमाणाः पवित्रप्रमाणा याज्ञिका होमार्थाः. अन्तहोमोक्तवृक्षीयाश्च समिधः सत्वचः न स्वयं शुष्कः । पात्राणि-प्रणिध्यादयः ठुवादयः जुहूप जुहूदव्र्यादयः ते–पात्रसुवादयः । यज्ञे-यागसूत्रे पात्रप्रकरणे प्रोक्ताः । आशंसायां निष्ठप्रयोगः; न पूर्वभावित्वं यज्ञसूत्रस्य । दष्विति । दर्भा नास्तीर्य तेषु दर्भेषु द्वन्द्वे युग्मं आज्यस्थालीचरुस्थाल्यौ प्रणिधिपात्रे च दर्वी सुवैौ जुहूपजुहू तथा येनार्थस्तञ्च । एवं पात्रदिसंभाराः ये तत्रोक्ताः कर्मागत्वेन, तानपि दैविके कर्मप्युत्तरे स्थण्डिलस्य संभरति । प्रत्येकमेकमेकमेव पैतृके दक्षिणे संभरति । अमिकुंडलक्षणमाह नित्यहोम इत्यादिना । औपासनं नित्य होमः । संस्कारहोमो नैमित्तिकः । नित्यहोमे–प्राप्ते अमिशालायां-अमिस्थापनो चिते गृहभागे । उक्तलक्षणे कुंडं कृत्वा गृही औपासनममेिं विधानेनाधाय नित्यं सायं प्रात: जुहोति । वनस्थस्य-तृतीयाश्रमिणः । श्रामणकमिकुंडं