पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रश्न:] ब्रह्माणमेकमेव वा वृत्वा तेनैव मन्त्रानुचारयित्वा अनुज्ञातः प्रेक्षणादि कुर्यात् । ब्रह्मणः सर्वमन्त्राधिकारित्वात् । औते तथा दृष्टत्वात् । अध्वर्युरेव तत्तन्मन्त्रानुचर्य प्रेक्षणादीन् कुर्यात् । एवमेव स्मार्त प्रायश्चिते विखनसाप्युक्तम् । 'संविशन्तामित्यादि । मन्त्रावृत्या ब्राक्षेण तीर्थेन ब्रह्ममणिधै, दैवेन सोमणिौ जलं संस्राय सुवादीनुत्तानानि कृत्वा गायत्र्या लुवं सुचश्ध प्रोक्षप्रेत्। इति षष्ठः पटलः । (इति एकादशः खण्डः) अथ सप्तमः पटल । ( अथ द्वादशः खण्ड भूस्स्रव' मित्यादि । सुवं शुचश्च । युगपदशक्यं चेत् मन्त्रावृत्त्या गृहीत्वा । वेद्यधस्तात् संक्षिष्ठ परिस्तरणोपरि प्रागग्रे वर्षिष्ठसमिधौ न्यस्य-क्षिपति । अत्र न मन्त्रावृत्तिः, द्ववच नात् । अंगारम् । उपवेषेणांगारमग्नेरुद्धमुल्मुकं व्यस्य विगतमक्षिप्य पूर्वक्त्। पवित्रेण प्रेक्षण्युक्तवत् पुनराहारं त्रिरुत्यूय । बर्हिर्दग्ध्वा-दर्भ दग्ध्वा अंगारं-दर्भल्कमाज्ये दर्शयति-प्रदीपयति । सर्वत्र आज्यादिहोभ्यद्रव्या णामयं विधिः । गल्यस्याज्यस्यालयमे आज्यमाविकं तदलमे माहिषं तदलाभे शुद्धं तैलमपि वा होमाथै ग्राह्यम् । एवं श्रौते प्रेोक्तम् । आज्यस्थालीमुदगुद्धास्य चस्थालीं पक्ता अभिघार्योत्तरत उद्वास्य, पैतृके तु दक्षिणतः । रुचां पश्धिमत आज्यस्थालं स्थापयति । ततः उत्पवनम् यस्तावंगारावौ निदध्यात् उत्तरपश्चिमे वायव्यां वेदृष्टवें निधाय तूणीमद्भिः प्रोक्ष्यादाय पवित्रं जुहोति पैतृके तु नैत्याम् । वायव्येऽौ पैतृके नैऋत्याम् । होम्यं– आज्यम् । द्विधा द्वभागमाग्नेयं प्राजापत्यमिति स्मृत्वा “देवस्य वे' ति मन्त्रान्ते घृतं विहरामीति विभजति । (इति द्वादशः खण्ड (अथ त्रयोदशः खण्डः) प्रजापतिपुरोगान्-प्रजापतिप्रथमान् । पैतृके कर्मणि औपासनयज्ञपदं विहाय तत्स्थाने वैश्वदेवपदमुक्ता विश्वान् देवानित्यन्त मावाहयेत् । अन्यत्पूर्ववत् । एवं तत्तत्कर्मदेवतावाहनमपि कुर्यात् । यथाऽऽ वाहनमित्यादि । यथा दक्षिणोत्तरप्रणिध्योरावाहनं तथा आज्यस्थाल्यां पूर्वमेव विहृतयोः दक्षिणोत्तरभागयोः प्रत्येकं स्रवेणाज्यं गृहीत्वा ऊध्र्वं नीत्वा स्रवमुद्धत्य जुटं निर्वपामीति चतुर्यन्तेन तत्तन्नान्ना तत्तद्भागयोरेव निर्वापं प्रतिक्षेपं 23